Enter your Email Address to subscribe to our newsletters

जामनगरम्, 09 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी १० तथा ११ मई २०२६ तमे दिने स्वगृहराज्ये गुजराते द्विदिवसीयभ्रमणे आगच्छति। अस्मिन् काले सः जामनगरे सोमनाथे वडोदरायां च विविधेषु धार्मिकसामाजिकविकासकार्यसम्बद्धेषु कार्यक्रमेषु सहभागं करिष्यति। प्रधानमन्त्रिणः भ्रमणं प्रति प्रशासनं सर्वाः सिद्धताः सम्पन्नाः कृतवान्।
१० मई: जामनगरे स्वागतं रात्रिविश्रामश्च
प्रधानमन्त्री मोदी १० मई दिने रात्रौ दिल्ल्याः अन्यराज्यानां च कार्यक्रमानन्तरं जामनगरं प्राप्स्यति। तस्य आगमनं प्रति नगरे उत्साहपूर्णं वातावरणं दृश्यते। नगरस्य प्रमुखमार्गः “गौरवपथः” विशेषदीपप्रकाशेन सज्जया च अलंकृतः अस्ति। प्रधानमन्त्री रात्रौ जामनगरे एव विश्रामं करिष्यति।
११ मई प्रातःकाले: सोमनाथे “सोमनाथ अमृतमहोत्सवे” सहभागिता
११ मई दिने प्रातःकाले प्रधानमन्त्री सोमनाथमहादेवस्य सान्निध्ये आयोजिते “सोमनाथ अमृतमहोत्सवे” सहभागं करिष्यति। सोमनाथमन्दिरस्य जीर्णोद्धारस्य प्राणप्रतिष्ठायाश्च पञ्चसप्ततिवर्षपूर्त्याः उपलक्ष्ये अयं समारोहः आयोज्यते।
प्रातः प्रायः १०:१५ वादने प्रधानमन्त्रीणः हेलिपदे आगमनं भविष्यति। ततः वीरहमीरजीगोहिलस्य प्रतिमां यावत् भव्ययात्रायाः आयोज्यते। अनन्तरं सः सोमनाथमन्दिरे विशेषमहापूजायां कुम्भाभिषेके ध्वजारोहणकार्यक्रमे च सहभागं कृत्वा पूजार्चनां करिष्यति।
अस्मिन् ऐतिहासिकावसरे प्रधानमन्त्री स्मारकसिक्कं डाकटिकटं च विमोक्ष्यति। सहैव सः सद्भावनाग्राउण्डे आयोजितां जनसभां सम्बोधयिष्यति। प्रधानमन्त्री सोमनाथसमितेः सदस्यैः सह बैठकां कृत्वा मन्दिरविकासकार्याणां समीक्षामपि कर्तुं शक्नोति।
सायंकाले वडोदरायां “सरदारधाम भवन ३” उद्घाटनम्
सोमनाथकार्यक्रमानन्तरं प्रधानमन्त्री वडोदरां प्रति प्रस्थितः भविष्यति। सूत्राणां अनुसारं मार्गमध्ये सः धोलेरा एसआइआर परियोजनायाः प्रगतिसमीक्षार्थं संक्षिप्तविराममपि कर्तुं शक्नोति।
सायं प्रायः ६ वादने प्रधानमन्त्री वडोदरायाः वाघोडियारोडस्थितस्य नवनिर्मितस्य “सरदारधाम भवन ३” इत्यस्य लोकार्पणं करिष्यति। एषः अत्याधुनिकः छात्रावासपरिसरः द्विसहस्राधिकविद्यार्थिनां निवासप्रतियोगिपरीक्षातयारीसुविधाभिः सुसज्जितः अस्ति।
अस्मिन् अवसरे पाटीदारसमाजस्य पक्षतः प्रधानमन्त्री मोदी “सरदाररत्न” सम्माननेन सम्मानितः भविष्यति।
भ्रमणस्य अन्तिमचरणे वडोदरायां गदासर्कलतः विमानस्थानकं यावत् प्रधानमन्त्रिणःमार्गयात्रा आयोज्यते, यस्मिन् बहुसंख्यकजनानां सहभागिता सम्भाव्यते।
सर्वेषां कार्यक्रमाणां समाप्त्यानन्तरं प्रधानमन्त्री सायंकाले वडोदरा विमानस्थानकात् दिल्लीं प्रति प्रस्थितः भविष्यति। अस्य दौरस्य विषये सौराष्ट्रे मध्यगुजराते च विशेषोत्साहः दृश्यते।
गुजरातसूचनाविभागेन उक्ता सूचना प्रदत्ता अस्ति।
__________________
हिन्दुस्थान समाचार