प्रधानमंत्रिणः 10 मई दिनांके कर्नाटक-तेलंगानाभ्रमणं, 9,400 कोटिरूप्यकाणां विकास परियोजनानां करिष्यति उद्घाटनं-शिलान्यासं च
नवदिल्ली, 09 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १० मे दिनाङ्के कर्नाटक-तेलङ्गानराज्ययोः भ्रमणे भविष्यति। अस्मिन् अवसरे सः बेङ्गलूरुनगरे आर्ट् ऑफ् लिविङ्ग् संस्थायाः पञ्चचत्वारिंशद्वार्षिकोत्सवसमारोहे भागं ग्रहीष्यति तथा च हैदराबादनगरे प्राय
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 09 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १० मे दिनाङ्के कर्नाटक-तेलङ्गानराज्ययोः भ्रमणे भविष्यति। अस्मिन् अवसरे सः बेङ्गलूरुनगरे आर्ट् ऑफ् लिविङ्ग् संस्थायाः पञ्चचत्वारिंशद्वार्षिकोत्सवसमारोहे भागं ग्रहीष्यति तथा च हैदराबादनगरे प्रायः ९४०० कोटिरूप्यकपरिमितानां विविधविकासपरियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। प्रधानमन्त्रीणः अयं दौरा दक्षिणभारते औद्योगिकविकासस्य, आधारभूतसंरचनायाः, स्वास्थ्यसेवानां तथा सामाजिककल्याणस्य नूतनगतिप्रदाने महत्त्वपूर्णः मन्यते।

प्रधानमन्त्रिकार्यालयस्य (पीएमओ) अनुसारम्, प्रधानमन्त्री नरेन्द्रमोदी येषां प्रमुखपरियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति, तासु हैदराबाद–पणजी आर्थिक-परिसरस्य अन्तर्गतं गुडेबेल्लूर् इत्यस्मात् महबूबनगरपर्यन्तं राष्ट्रियराजमार्गस्य १६७ सङ्ख्याकस्य चतुर्लेन-विस्तारपरियोजना अपि अस्ति। अस्याः परियोजनायाः सम्पन्नतया तेलङ्गानराज्यस्य समीपवर्तिराज्यानां च मध्ये मार्गसंपर्कः सुदृढः भविष्यति तथा च व्यापार-परिवहनक्रियाकलापानां प्रोत्साहनं भविष्यति।

अतिरिक्ततया सङ्गारेड्डीजिले विकसितव्यस्य ज़हीराबाद-औद्योगिकक्षेत्रस्य शिलान्यासम् अपि प्रधानमन्त्री करिष्यति। प्रायः ३२४५ एकड्-परिमिते क्षेत्रे विस्तीर्णायाः अस्याः परियोजनायाः व्ययः २३५० कोटिरूप्यकाधिकः अनुमानितः अस्ति। अधिकाऱिणां अनुसारम्, अस्मात् औद्योगिकक्षेत्रात् प्रायः १०,००० कोटिरूप्यकपरिमितं निवेशम् आकर्षयितुं सम्भावना अस्ति, येन विशालपरिमाणे रोजगारावसराः सृज्यन्ते तथा च क्षेत्रे औद्योगिकक्रियाकलापानां नूतना दिशा प्रदास्यते।

प्रधानमन्त्री वरङ्गलनगरे पीएम-मित्रा-पार्कस्य अपि शिलान्यासं करिष्यति, यः काकतीय-महा-वस्त्रोद्योग-पार्क इति नाम्ना ज्ञायते। प्रायः १७०० कोटिरूप्यकव्ययेन विकसितेयं परियोजना देशस्य प्रथमः पूर्णरूपेण कार्यशीलः पीएम-मित्रा-पार्कः भविष्यति। सर्वकारस्य मतम् अस्ति यत् अस्मात् वस्त्रोद्योगस्य प्रोत्साहनं भविष्यति तथा च तेलङ्गानराज्यं देशस्य प्रमुख-वस्त्र-केन्द्ररूपेण उद्भवितुं शक्नोति।

रेल-आधारभूतसंरचनाक्षेत्रे प्रधानमन्त्री काज़ीपेट–विजयवाडा रेल-बहुपथ-परियोजनां तथा काज़ीपेट-रेल-बाईपास-परियोजनां राष्ट्राय समर्पयिष्यति। एताभ्यां परियोजनाभ्यां रेलयातायातस्य क्षमता वर्धिष्यते तथा च दक्षिणभारते माल-यात्री-परिवहनं अधिकं सुगमं भविष्यति।

ऊर्जाक्षेत्रे इण्डियन-ऑयल-संस्थायाः मलकापुर-ग्रीनफील्ड-टर्मिनलस्य उद्घाटनम् अपि करिष्यते, येन पेट्रोलियम-उत्पादानां भण्डारण-वितरणव्यवस्था सुदृढा भविष्यति। सहैव प्रधानमन्त्री अत्याधुनिकसुविधायुक्तं सिन्धु-अस्पतालम् अपि राष्ट्राय समर्पयिष्यति, यत् क्षेत्रे स्वास्थ्यसेवानां उन्नयनदिशि महत्त्वपूर्णं पदं मन्यते।

तेलङ्गानराज्यस्य कार्यक्रमानन्तरं प्रधानमन्त्री कर्नाटकस्य राजधानीं बेङ्गलूरुनगरं गमिष्यति। तत्र सः आर्ट् ऑफ् लिविङ्ग् इण्टरनेशनल्-सेण्टर् इत्यत्र आयोजिते संस्थायाः पञ्चचत्वारिंशद्वार्षिकोत्सवसमारोहे सहभागी भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री नवनिर्मितस्य ध्यानमन्दिरस्य उद्घाटनं करिष्यति तथा च संस्थायाः पक्षतः मानसिकस्वास्थ्ये, ग्रामविकासे, प्रकृतिसंरक्षणे तथा सामाजिकपरिवर्तने केन्द्रितानां राष्ट्रव्यापी-सेवाप्रयत्नानां शुभारम्भं करिष्यति।-------------

हिन्दुस्थान समाचार