Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 मईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी महाराणप्रतापस्य जयन्त्यां तस्मै श्रद्धाञ्जलिं समर्प्य देशवासिनः तस्य अदम्यसाहसात् राष्ट्रभक्तेः च प्रेरणां ग्रहीतुं सन्देशम् अददात्।
प्रधानमन्त्री मोदी शनिवासरे सामाजिकमाध्यममञ्चे “एक्स्” इति माध्यमे प्रकाशितसन्देशे उक्तवान् यत् महाराणप्रतापः वीरतायाः पराक्रमस्य आत्मसम्मानस्य च अमरप्रतीकः आसीत्। सः मातृभूमेः सम्मानगौरवगरिमाणां रक्षणार्थं स्वस्य सम्पूर्णजीवनं समर्पितवान्।
प्रधानमन्त्री स्वसन्देशे उक्तवान् यत् महाराणप्रतापस्य अदम्यसाहसम् अखंडस्वाभिमानश्च आगामिपीढीनां हृदयेषु देशभक्तेः भावनां निरन्तरं प्रेरयिष्यतः।
सः उक्तवान् यद् “वीरतापराक्रमयोः अमरप्रतीकाय देशस्य महान् योद्धा महाराणप्रतापाय तस्य जयन्त्यां सादरं श्रद्धाञ्जलिः। सः मातृभूमेः आनबानस्वाभिमानानां रक्षणार्थं स्वजीवनं समर्पितवान्। तस्य अदम्यसाहसत्यागयोः गाथाः युगयुगान्तरं देशवासिषु राष्ट्रभक्तेः भावनां सञ्चारयिष्यन्ति।”
---------------
हिन्दुस्थान समाचार