Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 मईमासः (हि.स)।केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः शनिवासरे उक्तवती यत् वर्षे २०१५ आरब्धे प्रधानमन्त्रीजीवनज्योतिबीमायोजनायाः तथा प्रधानमन्त्रीसुरक्षाबीमायोजनायाः अन्तर्गतं अद्यावधि प्रायः २५,१६० कोटिरूप्यकाणां दावानां निपटनं कृतम् अस्ति।
वित्तमन्त्री एक्स्-माध्यमे प्रकाशितवत्याः यत् प्रधानमन्त्रीजीवनज्योतिबीमायोजना, प्रधानमन्त्रीसुरक्षाबीमायोजना तथा अटलपेंशनयोजना इत्येतासां योजनानां उद्देश्यः समाजस्य दुर्बलवञ्चितवर्गेभ्यः सुलभां वित्तीयसुरक्षां प्रदातुम् अस्ति। एताः तिस्रः योजनाः प्रधानमन्त्रिणा नरेन्द्र मोदिना २०१५ तमवर्षस्य मईमासस्य नवमदिनाङ्के प्रारब्धाः आसन्।
सीतारमण उक्तवती यत् एताः प्रमुखयोजनाः बीमाक्षेत्रस्य पेंशनक्षेत्रस्य च विस्तारं कुर्वन्ति, तथा नागरिकेभ्यः जीवनस्य अनिश्चितताभ्यः संरक्षणं प्रदाय दीर्घकालिकवित्तीयस्थैर्यस्य सुदृढीकरणं कुर्वन्ति।
प्रधानमन्त्रिजीवनज्योतिबीमायोजना, प्रधानमन्त्रीसुरक्षाबीमायोजना तथा अटलपेंशनयोजना अन्तर्गतं क्रमशः २७ कोट्यधिकानि, ५८ कोट्यधिकानि तथा ९ कोट्यधिकानि नामाङ्कनानि अभवन्।
वित्तमन्त्री अवदत् यत् प्रधानमन्त्रीजीवनज्योतिबीमायोजनायाः अन्तर्गतं अद्यावधि १०.७ लक्षाधिकपरिवाराणां कृते २१,५०० कोटिरूप्यकाधिकस्य दावभुगतानं कृतम्, यदा च प्रधानमन्त्रीसुरक्षाबीमायोजनायाः अन्तर्गतं १.८४ लक्षाधिकपरिवाराणां कृते प्रायः ३,६६० कोटिरूप्यकाणां दावानां निपटनं सम्पन्नम्।
जनसुरक्षायोजनानां एकादशवर्षपूर्त्यवसरे सर्वेषां हितधारकाणां, विशेषतः बैङ्क-बीमासंस्थानयोः क्षेत्रीयकर्मचारिणां प्रयत्नाः प्रशंसनीयाः सन्ति, येषां प्रयासैः एताः योजनाः सफलाः अभवन्।
---------------
हिन्दुस्थान समाचार