Enter your Email Address to subscribe to our newsletters

चंडीगढम्, 09 मईमासः (हि.स.)।
पञ्जाबस्य मुख्यमन्त्रिणा भगवन्तसिंहमानेन आमआदमीपक्षस्य नेतॄणां विरुद्धं पुनःपुनः क्रियमाणानां छापेमारीकार्याणां विषये केन्द्रसरकारं प्रति तीक्ष्णः प्रहारः कृतः।
तेन उक्तं यत् भारतीयजनतापक्षस्य प्रवर्तननिदेशालयस्य च गठबन्धनस्य पतनं पञ्जाबदेशात् एव आरभिष्यते। भयप्रदर्शनधमकीकरणप्रतिशोधराजनीतेः उपायानां सम्मुखे पञ्जाबः कदापि न नमिष्यति।
मुख्यमन्त्री उक्तवान् यत् मन्त्रिमण्डलस्य मन्त्री संजीवअरोडायाः निवासस्थाने एकस्मिन् वर्षे तृतीयवारं तथा एकस्मिन् मासे द्वितीयवारं प्रवर्तननिदेशालयस्य आक्रमणम् अभवत्, किन्तु तस्मात् किमपि न प्राप्तम्।
संगरूरप्रदेशे पत्रकारैः सह वार्तालापे भगवन्तमानः उक्तवान् यत् एतादृश्यः छापेमार्यः केवलं तेषु राज्येषु एव क्रियन्ते यत्र भाजपादलस्य सत्ता नास्ति। तेन उक्तं यत् मोदीसर्वकारस्य वास्तविकः अभिप्रायः कृष्णधनस्य पुनर्प्राप्तिः न, अपितु विपक्षीयनेतॄणां उपरि दबावं स्थापयित्वा तान् भाजपादले सम्मिलितुं बाधितुम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् गुरूणां शहीदानां च भूमिरूपः पञ्जाबः औरङ्गजेबस्य अत्याचाराणां सम्मुखे अपि न अवनतः।
मुख्यमन्त्री पुनः बलपूर्वकं उक्तवान् यत् पञ्जाबः प्रधानमन्त्रिणः नरेन्द्रमोदेः सम्मुखे अपि कदापि न नमिष्यति। तेन अपि उक्तं यत् भाजपा-प्रवर्तननिदेशालययोः गठबन्धनस्य पतनम् पञ्जाबदेशात् एव आरभिष्यते।
भगवन्तसिंहमानः उक्तवान् यत् केन्द्रीयअन्वेषणविभागः आयकरविभागः प्रवर्तननिदेशालयः तथा निर्वाचनायोगः इत्यादयः संवैधानिकसंस्थाः अधुना निष्पक्षरूपेण कार्यं न कुर्वन्ति, अपितु अभाजपाशासितराज्यानि विशेषतः पञ्जाबराज्यं राजनैतिकलक्ष्यैः लक्ष्यीकुर्वन्ति।
मुख्यमन्त्री उक्तवान् यत् भाजपादलेन एताः संस्थाः नेतॄणां व्यापारिणां जनप्रतिनिधीनां च भयप्रदर्शनार्थं राजनैतिकदमनस्य साधनरूपे परिवर्तिताः।
तेन उक्तं यत् स्वकर्तव्यस्य निष्पक्षतया पालनस्य स्थाने एतासां संस्थानां उपयोगः अधुना राजनैतिकप्रतिशोधस्य निर्वहणाय लोकतन्त्रेण निर्वाचितसरकाराणां अस्थिरीकरणाय च क्रियते।
मुख्यमन्त्री उक्तवान् यत् भाजपादलेन समग्रदेशे एषः एव उपायः स्वीकृतः, यत्र आक्रमणानि भ्रष्टाचारस्य उद्घाटनार्थं कृष्णधनस्य पुनरागमनार्थं वा न, अपितु जनानां उपरि राजनैतिकदबावनिर्माणार्थं क्रियन्ते।
तेन उक्तं यत् भाजपायाः सन्देशः स्पष्टः अस्ति यद् अथवा भाजपादले सम्मिलिताः भवतु, अन्यथा छापेमारीअन्वेषणादिभिः क्लेशं सहध्वम्।
राज्यसभासदस्यस्य अशोकमित्तलस्य नवीनप्रकरणस्य उदाहरणं दत्त्वा मुख्यमन्त्री भगवन्तसिंहमानः उक्तवान् यत् तस्य निवासस्थाने विश्वविद्यालये व्यावसायिकसंस्थासु च द्विदिनपर्यन्तं आक्रमिता कृता।
यस्मिन् क्षणे सः भाजपादले सम्मिलितः, तस्मिन् एव क्षणे छापेमारी स्थगिता, अपि च तस्मै केन्द्रसरकारेण सुरक्षा प्रदत्ता। किम् एषा संस्थानां राजनैतिकदुरुपयोगस्य ज्वलन्ता दृष्टान्तरूपा नास्ति?
तेन उक्तं यत् प्रवर्तननिदेशालयस्य भाजपायाः च मध्ये विद्यमानस्य “अनैतिकगठबन्धनस्य” अन्तः पञ्जाबदेशात् एव आरभिष्यते।
तेन सूचितं यत् यदा आरभ्य “आप्” सर्वकारेण बेअदबीविरोधी कठोरः नियमः पारितः, तदा आरभ्य भाजपादलं क्रुद्धं जातम्, राज्यस्य नेतृत्वं भयभीतं कर्तुं स्वप्रयत्नान् अधिकं तीव्रान् कृतवान्।
---------------
हिन्दुस्थान समाचार