‘शिक्षा-प्लस’-कार्यक्रमस्य अन्तर्गतं २४५० लाभार्थिभ्यः साक्षरता-प्रमाणपत्राणि प्रदत्तानि
मुरादाबाद-नगरम्, ०९ मईमासः (हि.स.)। परिवर्तन-दी-चेञ्ज-संस्था मुरादाबादद्वारा शिव-नाडर-फाउण्डेशनस्य शिक्षा-प्रकल्पस्य अन्तर्गतं सञ्चालितस्य “शिक्षा-फॉर-एडल्ट्स-प्रोग्राम” इत्यस्य अन्तर्गतं २४५० लाभार्थिभ्यः साक्षरता-प्रमाणपत्राणि वितरितानि। प्रमाणप
लाभार्थियों को साक्षरता प्रमाण पत्र वितरित करते अतिथि।


मुरादाबाद-नगरम्, ०९ मईमासः (हि.स.)। परिवर्तन-दी-चेञ्ज-संस्था मुरादाबादद्वारा शिव-नाडर-फाउण्डेशनस्य शिक्षा-प्रकल्पस्य अन्तर्गतं सञ्चालितस्य “शिक्षा-फॉर-एडल्ट्स-प्रोग्राम” इत्यस्य अन्तर्गतं २४५० लाभार्थिभ्यः साक्षरता-प्रमाणपत्राणि वितरितानि।

प्रमाणपत्र-वितरण-समारोहे मुख्यातिथिरूपेण सह-जनपद-विद्यालय-निरीक्षकः शतानन्द-शर्मा, विशिष्टातिथिरूपेण उत्तरप्रदेश-राज्य-बाल-अधिकार-आयोगस्य पूर्वाध्यक्षः डॉ.विशेष-गुप्तः तथा भावना-शर्मा उपस्थितौ आस्ताम्। अतिथिभिः लाभार्थिभ्यः प्रमाणपत्राणि वितीर्य शिक्षायाः महत्त्वे प्रकाशः क्षिप्तः तथा च तान् अग्रेऽपि अध्ययनाय प्रेरितवन्तः।

अस्मिन् अवसरे संस्था-अध्यक्षः कपिल-कुमारः ‘शिक्षा-प्लस्’-कार्यक्रमस्य विस्तृतां सूचनां प्रदाय उक्तवान् यत् संस्थायाः उद्देश्यं समाजस्य निरक्षर-वर्गं शिक्षया संयोज्य आत्मनिर्भरं कर्तुम् अस्ति।

कार्यक्रमे ग्राम-प्रधानः नरेशः, “शिक्षा-फॉर-एडल्ट्स-प्रोग्राम” इत्यस्मात् संजीव-झा सहितं संस्थायाः पदाधिकारिणः, स्वयंसेवकाः तथा जन-शिक्षकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता