सप्तमासोत्तरं शिमलातः पुनरुड्डेष्यते विमानं, पर्यटनाय लगिष्येते पक्ष्मणी
शिमला, 09 मईमासः (हि.स.)। पर्वतराज्ञी शिमला पुनरेव आकाशमार्गेण देशस्य प्रमुखनगरैः सह सम्बद्धा भवितुं गच्छति। सप्तमासेभ्यः निरुद्धाः विमानसेवाः अधुना श्वः अर्थात् १० मईतः पुनः आरभ्यन्ते। ग्रीष्मकालीनपर्यटन-ऋतौ आरभ्यमाणाभिः एताभिः उड्डयनसेवाभिः पर्
शिमला


शिमला, 09 मईमासः (हि.स.)।

पर्वतराज्ञी शिमला पुनरेव आकाशमार्गेण देशस्य प्रमुखनगरैः सह सम्बद्धा भवितुं गच्छति। सप्तमासेभ्यः निरुद्धाः विमानसेवाः अधुना श्वः अर्थात् १० मईतः पुनः आरभ्यन्ते। ग्रीष्मकालीनपर्यटन-ऋतौ आरभ्यमाणाभिः एताभिः उड्डयनसेवाभिः पर्यटकानां शिमलागमननिर्गमनं सुलभं भविष्यति तथा पर्यटनव्यवसायोऽपि नूतनां गतिं प्राप्स्यतीति अपेक्षा वर्तते।

राजधानीशिमलास्थात् जुब्बडहट्टीविमानपत्तनात् दिल्ली-धर्मशालानगरयोः प्रति नियमितविमानसेवा पुनः प्रवर्त्यते।

एलायन्स् एअर् इति विमानसंस्था दिल्ली-शिमला-मार्गे मङ्गलवारं विना सप्ताहे षट्दिनानि उड्डयनानि सञ्चालयिष्यति। तथा च शिमला-धर्मशालयोः मध्ये मङ्गलवासरं रविवासरं च विना सप्ताहे पञ्चदिनानि विमानसेवा उपलब्धा भविष्यति। विमानसंस्थया पूर्वआरक्षणप्रक्रिया आरब्धा तथा प्रतिदिनस्य समयसारिणी अपि स्वकीयजालपुटे अद्यतनीकृता।

रविवासरस्य समयसारिण्यानुसारं नवीदिल्लीतः विमानं प्रातः ६:२० वादने प्रस्थित्य ७:३५ वादने शिमलां प्राप्स्यति। ततः अनन्तरं विमानं प्रातः ८:०० वादने शिमलात् प्रस्थित्य ९:१० वादने दिल्लीं प्राप्स्यति। सोमवासरे दिल्लीतः विमानं प्रातः ७:२० वादने प्रस्थित्य ८:३५ वादने शिमलां प्राप्स्यति। प्रत्यागमने विमानं प्रातः ११:३० वादने शिमलात् उड्डीयमानं मध्याह्ने १२:४० वादने दिल्लीं प्राप्स्यति। दिल्लीतः शिमलां प्रति यात्रा प्रायः एकघण्टापञ्चदशमिनिटेषु सम्पन्ना भविष्यति, यदा तु शिमलातः दिल्लीं प्रति गन्तुं प्रायः एकघण्टादशमिनिटसमयः अपेक्षितः भविष्यति।

एवमेव ११ मईतः शिमला-धर्मशालयोः मध्ये अपि विमानसेवा आरभ्यते। शिमलातः विमानं प्रातः ९:०० वादने प्रस्थित्य ९:५० वादने धर्मशालां प्राप्स्यति, धर्मशालातः च विमानं प्रातः १०:१५ वादने उड्डीयमानं ११:०५ वादने शिमलां प्राप्स्यति। अर्थात् उभयोः नगरयोः मध्ये यात्रा अधुना केवलं पञ्चाशन्मिनिटेषु सम्पन्ना भविष्यति।

किन्तु अस्मिन्पर्याये यात्रिकैः पूर्वापेक्षया बहु अधिकं शुल्कं दातव्यं भविष्यति। दिल्ली-शिमला-मार्गे पूर्वं यत्र रियायतीशुल्कं प्रायः ४,५०० रूप्यकाणि आसीत्, अधुना तत् वर्धित्वा ७,४४१ रूप्यकपर्यन्तं प्राप्तम्। अर्थात् शुल्के प्रायः ६५ प्रतिशतवृद्धिः अभवत्। तथा शिमला-धर्मशाला-मार्गे शुल्कं प्रायः २,१०० रूप्यकेभ्यः वर्धित्वा ४,१२५ रूप्यकपर्यन्तं प्राप्तम्, यत् प्रायः ९६ प्रतिशताधिकम् अस्ति। केषाञ्चित् आसनानां कृते शुल्कं अस्मादपि अधिकं निर्धारितम् अस्ति। शिमलातः दिल्लीं प्रति केषाञ्चित् आसनानां शुल्कं १८,२९८ रूप्यकाणि तथा २७,११८ रूप्यकाणि पर्यन्तम् अस्ति, यदा तु शिमला-धर्मशाला-मार्गे केषाञ्चित् आसनानां शुल्कं १३,०९८ रूप्यकाणि तथा १८,३४८ रूप्यकाणि पर्यन्तं वर्धितम्।

शिमलायाः विमानसेवाः गतवर्षस्य २ नवम्बर २०२५ तः निरुद्धाः आसन्। वस्तुतः २५ सितम्बर २०२५ दिने एलायन्स् एअर् तथा हिमाचलप्रदेशसर्वकारयोः मध्ये विमानसेवासञ्चालनसम्बद्धः करारः समाप्तः अभवत्। तदनन्तरं उड्डयनसेवाः निरुद्धाः। अधुना दीर्घप्रतीक्षानन्तरं सेवासु पुनरारम्भः जातः इति कारणेन पथिकाश्रयव्यवसायिनः, पर्यटनोद्योगः, यात्रिकाश्च महान् राहतं प्राप्स्यन्तीति अपेक्षा अस्ति। ग्रीष्मकालस्य समये प्रतिवर्षं बहुसंख्यकाः पर्यटकाः शिमलां आगच्छन्ति, तादृशे काले विमानसेवानां पुनर्बहाली पर्यटनक्षेत्रस्य कृते अत्यन्तमहत्त्वपूर्णा मन्यते।

एतेषु मार्गेषु एलायन्स् एअर् संस्थायाः एटीआर-४२ (६००) इति विमानं उड्डयनं करिष्यति। एतत् विमानं तान्त्रिकदृष्ट्या ४८ आसनयुक्तम् अस्ति, किन्तु जुब्बडहट्टीविमानपत्तनस्य भौगोलिकपरिस्थितीनां, उच्चतायाः, लघुधावनमार्गस्य च कारणात् सीमितयात्रिकैः सह एव उड्डयनं कर्तुं शक्नोति। दिल्लीतः शिमलां प्रति आगच्छन्ती उड्डयनसेवा प्रायः पूर्णक्षमतया ४७ यात्रिकान् आनेतुं समर्था भविष्यति, किन्तु शिमलातः दिल्लीं प्रति उड्डयनकाले पेलोडप्रतिबन्धकारणात् विमानं केवलं २४ तः २८ यात्रिकान् एव नेतुं शक्नोति। शिमला-धर्मशाला-मार्गे अपि मौसमपरिस्थितीनां धावनमार्गस्थितेः च अनुसारं यात्रिकसंख्या सीमिता भविष्यति।

भारतीयविमानपत्तनप्राधिकरणस्य शिमलानिदेशकः सतीशकुमारः शनिवासरे उक्तवान् यत् डीजीसीए संस्थायाः पक्षतः १० मईतः २० मईपर्यन्तस्य अनुमोदितसमयसारिणी प्राप्ता अस्ति तथा सर्वाः सज्जताः सम्पन्नाः। तेन उक्तं यत् प्रथमविमानस्य शिमलागमने जलतोपेन तस्य स्वागतं करिष्यते तथा यात्रिकाणामपि विशेषस्वागतं भविष्यति।

---------------

हिन्दुस्थान समाचार