सोनार बांग्लायाः स्वप्नं साकारीकरिष्यति शुभेंदुसर्वकारः - रेखागुप्ता
नवदिल्ली, 09 मईमासः (हि.स.)।दिल्ल्याः मुख्यमन्त्री रेखागुप्ता शनिवासरे पश्चिमबङ्गाले नवनिर्वाचितस्य भाजपासर्वकारस्य शपथग्रहणसमारोहे सहभागी अभवत्। रेखागुप्तया एषः अवसरः ऐतिहासिकः इति वर्णितः। बङ्गालप्रदेशस्य जनतां प्रणम्य सा उक्तवती यत् शुभेन्दुसर्व
पश्चिम बंगाल के नवनिर्वाचित मुख्यमंत्री शुभेंदु अधिकारी को शुभकामनाएं देती दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 09 मईमासः (हि.स.)।दिल्ल्याः मुख्यमन्त्री रेखागुप्ता शनिवासरे पश्चिमबङ्गाले नवनिर्वाचितस्य भाजपासर्वकारस्य शपथग्रहणसमारोहे सहभागी अभवत्। रेखागुप्तया एषः अवसरः ऐतिहासिकः इति वर्णितः। बङ्गालप्रदेशस्य जनतां प्रणम्य सा उक्तवती यत् शुभेन्दुसर्वकारः “सोनारबाङ्ग्ला” इत्यस्य स्वप्नं साकारीकरिष्यति।

मुख्यमन्त्री स्ववक्तव्ये उक्तवती यत् गतपञ्चदशवर्षेषु बङ्गालप्रदेशस्य जनतया अत्याचारदमनभ्रष्टाचाराणां कालः अनुभूतः, किन्तु अधुना जनतया लोकतान्त्रिकरीत्या परिवर्तनस्य निर्णयः कृतः, येन “सोनारबाङ्ग्ला” इत्यस्य स्वप्नं साकारं भविष्यति। अद्यतनः दिवसः बङ्गालस्य कृते नूतनारम्भस्य प्रतीकः अस्ति, यत्र विकासेन विश्वासेन च सह राज्यं अग्रे गमिष्यति तथा सम्पूर्णदेशेन सह पदे पदे समं चलिष्यति।

रेखागुप्ता उक्तवती यत् पूर्वसरकारस्य काले येन प्रकारेण भ्रष्टाचारस्य अत्याचारस्य च घटनाः प्रकाशं प्राप्नुवन्ति स्म, अधुना तस्य कालस्य समाप्तिः अभवत्। तया विश्वासः प्रकटितः यत् नूतनसरकारस्य नेतृत्वे बङ्गाले सुशासनं विकासः जनकल्याणं च प्राथमिकतां प्राप्स्यन्ति। शुभेन्दुअधिकाऱिणः नेतृत्वे निर्मिता सर्वकारः सकारात्मकसन्देशं दत्तवती यत् अधुना बङ्गालस्य भविष्यत् उज्ज्वलं भविष्यति।

तया शुभेन्दुअधिकाऱिणं बङ्गालस्य जनतां च दिल्लीतः हार्दिकशुभकामनाः प्रदत्ताः। सा उक्तवती यत् एषा विजयः केवलं राजनैतिकसङ्ख्यानां विजयः नास्ति, अपितु तेषां ३२१ भाजपाकार्यकर्तॄणामपि विजयः अस्ति, ये बङ्गालस्य श्रेष्ठभविष्यस्य “सोनारबाङ्ग्ला” स्वप्नस्य च कृते स्वप्राणान् न्योच्छावरितवन्तः। एते कार्यकर्तारः केवलं भाजपायै न, अपितु बङ्गालस्य आगामिसंततीनां लोकतन्त्रस्य संरक्षणाय च स्वबलिदानं दत्तवन्तः।

मुख्यमन्त्री उक्तवती यत् बङ्गाले महिलानां युवानां राजनैतिककार्यकर्तॄणां च उपरि येन प्रकारेण अत्याचाराः अभवन्, तेन लोकतन्त्रं लज्जितम् अभवत्। जनतया लोकतान्त्रिकरीत्या तस्य उत्तरं दत्तम्, अधुना परिवर्तनस्य नूतना प्रभाता आरब्धा अस्ति।

-----------

हिन्दुस्थान समाचार