पश्चिम बंगाले बीजेपीदलस्य आगमनम् अनुच्छेद-370, श्रीराम मंदिरं, समान नागरिक संहिता अथ सीएए इत्येभ्यो न्यूनं न : केशव प्रसाद माैर्यः
-कच्छमारभ्य कोहिमां यावत् विकसितम्भाजपादलस्य कमलम् : केशव प्रसाद मौर्यः -सुशासनं समृद्धं प्रत्यभिमुखता तीव्रतया अग्रसरः भविष्यति पश्चिम बंगालम् लखनऊ,09 मईमासः (हि.स.)। भारतीयजनतापार्टीदलस्य वरिष्ठनेता तथा उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्र
उप मुख्यमंत्री केशव प्रसाद मौर्य


-कच्छमारभ्य कोहिमां यावत् विकसितम्भाजपादलस्य कमलम् : केशव प्रसाद मौर्यः

-सुशासनं समृद्धं प्रत्यभिमुखता तीव्रतया अग्रसरः भविष्यति पश्चिम बंगालम्

लखनऊ,09 मईमासः (हि.स.)।

भारतीयजनतापार्टीदलस्य वरिष्ठनेता तथा उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्य पश्चिमबङ्गसर्वकारे मुख्यमन्त्रिरूपेण शपथग्रहणस्य अवसरस्य शुभेन्द्वधिकारी महोदयाय अभिनन्दनं उज्ज्वलकार्यकालस्य शुभकामनाः च प्रदत्तवान्। उपमुख्यमन्त्री केशवः शनिवासरे स्वस्य सामाजिकमाध्यम-लेखायां लिखितवान् यत् मम पूर्णविश्वासः अस्ति यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनः कुशलमार्गदर्शने तथा भवतः नेतृत्वे पश्चिमबङ्गराज्यं विकासस्य, सुशासनस्य, समृद्धेः च नूतनयुगस्य प्रति शीघ्रं अग्रे गमिष्यति।

पश्चिमबङ्गे भाजपादलस्य आगमनम् अनुच्छेद-३७०, श्रीराममन्दिरम्, समाननागरिकसंहिता तथा सीएए इत्येतेभ्यः न्यूनं नास्ति इति केशवप्रसादमौर्य उक्तवान्। तेन अग्रे लिखितं यत् नूतनः प्रभातः, नूतनः उत्साहः, नूतना गतिः—पश्चिमबङ्गे भाजपासरकारः आगता अस्ति। उपमुख्यमन्त्री उक्तवान् यत् सीमावर्ती-राज्ये पश्चिमबङ्गे भारतीयजनतापार्टीदलस्य विजयस्य महत्त्वम् अनुच्छेद-३७०, श्रीराममन्दिरम्, समाननागरिकसंहिता तथा सीएए इत्येतेभ्यः कस्यापि प्रकारेण न्यूनं नास्ति। कतिपयवर्षपूर्वं यावत् असमराज्ये पश्चिमबङ्गे च भाजपासरकारस्य निर्माणं ‘स्वप्नसदृशम्’ आसीत्। मुस्लिम-मतसङ्ग्रहस्य आधारे स्थिताः कथितधर्मनिरपेक्षदलाः धमकीं ददति स्म यत् असम-पश्चिमबङ्गराज्ययोः मुस्लिममतप्रतिशतं त्रिंशत् प्रतिशताधिकं अस्ति, अतः एतेषु राज्येषु केवलं तेषामेव शासनस्य अधिकारः अस्ति तथा च भाजपादलेन एतेषां राज्ययोः प्रति दृष्टिपातोऽपि न कर्तव्यः।

उपमुख्यमन्त्री लिखितवान् यत् पश्चिमबङ्गे स्वातन्त्र्यकाले हिन्दू-मुस्लिम-जनसङ्ख्यायाः अनुपातः प्रायः ८०-२० आसीत्, यः अधुना परिवर्त्य प्रायः ७१-२९ जातः अस्ति। असमराज्ये तु जनसङ्ख्यासन्तुलनस्य स्थिति अधिका भयावहा अस्ति, यत्र मुस्लिमजनसङ्ख्या प्रायः ३५ प्रतिशतं वर्तते। घुसपैठस्य ‘प्रोत्साहनं’ दत्त्वा कथितधर्मनिरपेक्षदलाः अस्य परिवर्तमानस्य जनसाङ्ख्यिकसन्तुलनस्य स्वस्य ‘सत्ताकुञ्जिका’ इति मन्यन्ते स्म। एतादृशीं धमकीं ते बिहार-उत्तरप्रदेशयोः अपि ददति स्म यत् बहुषु निर्वाचनक्षेत्रेषु मुस्लिमप्रभावः अस्ति, अतः भाजपादलं स्वबलात् कदापि शासनं निर्मातुं न शक्नोति। किन्तु प्रधानमन्त्रिणो मोदिनः कुशलनेतृत्वे भाजपादलेन सर्वप्रकारचुनौतिभिः सह संघर्षं कृत्वा अनेकानि दुर्गाणि विजितानि। ‘कच्छतः कोहिमापर्यन्तं’ अद्य भाजपादलस्य कमलं विकसितम् अस्ति।

देशस्य एकविंशतिराज्येषु एनडीए-सहिताः भाजपासरकाराः जनसेवायाः नूतनमानकानि स्थापयन्ति। सः दिवसः अधुना दूरं नास्ति यदा दक्षिणभारते अपि पूर्णरूपेण कमलं विकसितं भविष्यति, यतः तत्रापि परिवर्तनस्य राष्ट्रवादस्य च प्रकाशकिरणः प्राप्तः अस्ति।

हिन्दुस्थान समाचार