Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 मईमासः (हि.स.)।
केन्द्रीयमन्त्री जितेन्द्रसिंहः शनिवासरे “स्वच्छसागरः सुरक्षितसागरः” २०२६ अभियानस्य तथा आगामिनः “इण्डिया इण्टरनेशनल् साइन्स् फेस्टिवल्” इत्यस्य सिद्धतायाः विस्तृतसमीक्षां कृतवान्।
अस्यां संगोष्ठ्यां निर्णयः कृतः यत् “स्वच्छसागरः सुरक्षितसागरः” २०२६ अभियानम् १२ सितम्बरतः १९ सितम्बरपर्यन्तं समग्रदेशे सञ्चालयिष्यते, तथा च अस्य समापनम् अन्ताराष्ट्रियतटीयस्वच्छतादिवसस्य अवसरे भविष्यति। एषः अभियानः भारतस्य ११,०९८ किलोमीटरदीर्घं समुद्रतटं समावेशयिष्यति।
विज्ञानप्रौद्योगिकीमन्त्रालयेन सूचितं यत् अस्मिन् अभियाने केन्द्रराज्यसर्वकारयोः मन्त्रालयानि वैज्ञानिकसंस्थानानि जिलाप्रशासनम् भारतीयतटरक्षकबलम् एनसीसी एनएसएस स्वैच्छिकसङ्गठनानि स्थानीयसमुदायाश्च संयुक्तरूपेण सहभागं करिष्यन्ति। सर्वकारेण एतत् अभियानं “जनआन्दोलन” इति रूपेण अग्रे नेतुं योजना निर्मिता अस्ति।
उपवेशने सूचितं यत् अस्य अभियानस्य माध्यमेन समुद्रीयकचरस्य सफाई तटीयप्रदेशानां सुरक्षा समुद्रीयपारिस्थितिकतन्त्रस्य सुदृढीकरणं च विशेषतया प्रोत्साहयिष्यते। एतदर्थं वैज्ञानिकनिगराण्या सह जनसहभागितापि वर्धयिष्यते।
गतवर्षाणां प्रगतिसमीक्षायां सूचितं यत् २०२५ अभियानस्य काले १५० टनाधिकस्य समुद्रीयकचरस्य दस्तावेजीकरणं कृतम् आसीत्। नागरिकानां सहभागितां वर्धयितुं “सागर एप्” इत्यादीनां डिजिटलमञ्चानां उपयोगः क्रियते, येन तटीयप्रदेशेषु कचरनिगराणी प्रतिवेदनप्रक्रिया च सुलभा जाता।
केन्द्रीयमन्त्री डॉ. जितेन्द्रसिंहः उक्तवान् यत् एषः अभियानः प्रधानमन्त्रिणः नरेन्द्रमोदिनः “ब्लू इकोनॉमी विजन्” इत्यस्य उन्नयने महत्त्वपूर्णां भूमिकां निर्वहति। तेन उक्तं यत् समुद्रीयसुरक्षा पर्यावरणसंरक्षणं च अधुना राष्ट्रियप्राथमिकतायाः अङ्गत्वेन स्वीकृतम् अस्ति।
उपवेशने एनसीसी एनएसएस शैक्षणिकसंस्थानानि युवासङ्गठनानि च अधिकतया सहभागं कुर्वन्तु इति विषये अपि विशेषबलं दत्तम्, येन अभियानं भूमिस्थरे अधिकं प्रभावी भवेत्।
एतेन सह “इण्डिया इण्टरनेशनल् साइन्स् फेस्टिवल्” इत्यस्य सिद्धतायाः अपि समीक्षा कृता, यः अस्मिन् वर्षे दिसम्बरमासस्य तृतीयसप्ताहे पुणेनगरे आयोज्यिष्यते।
अस्मिन् महोत्सवे वैज्ञानिकसंस्थानानि स्टार्टअप्स शोधकर्तारः छात्राः नवोन्मेषसम्बद्धाः युवानश्च सहभागं करिष्यन्ति। अस्य उद्देश्यं विज्ञानप्रौद्योगिकीं सामान्यजनैः सह सम्बद्धं कर्तुं तथा नवोन्मेषपरिसंस्थां सुदृढां कर्तुं च अस्ति।
---------------
हिन्दुस्थान समाचार