Enter your Email Address to subscribe to our newsletters


जयपुरम्, 09 मईमासः (हि.स.)।
१८५७ तमवर्षीयप्रथमस्वातन्त्र्यक्रान्तेः आरम्भस्य पूर्वसन्ध्यायां वीरशिरोमणिमहाराणाप्रतापस्य जयन्त्याः अवसरे च जयपुरनगरस्य होटल् क्लार्क्स् आमेर् इत्यत्र “शौर्याञ्जलि” नामकः कार्यक्रमः आयोजितः। संयोजकः सन्दीपगुप्तः अवदत् यत् “द हिन्दू फाउण्डेशन” इत्यनेन आयोजिते अस्मिन् कार्यक्रमे राज्यपालः हरिभाऊबागडे मुख्यातिथिरासीत् तथा अध्यक्षतां सिविललाइन्स्-विधायकः गोपालशर्मा अकरोत्।
कार्यक्रमस्य शुभारम्भः राष्ट्रगीतेन दीपप्रज्वलनेन वीरबलिदानिनां नमनपूर्वकं च अभवत्। अस्मिन् अवसरे अमरहुतात्मनः पण्डितचन्द्रशेखरआजादस्य वंशजः अमितआजादः सहितः शहीदपरिवारजनानां सम्मानः कृतः।
मुख्यातिथिः राज्यपालः बागडे उक्तवान् यत् भारतस्य स्वातन्त्र्यम् असंख्यबलिदानानां परिणामः अस्ति तथा १८५७ तमवर्षस्य वीराणां त्यागः राष्ट्रस्य इतिहासे अमिटाध्यायरूपेण विद्यमानः अस्ति। तेन महाराणाप्रतापस्य स्वाभिमानः संघर्षश्च नूतनपीढ्यै प्रेरणास्रोतः इति कथितः।
अध्यक्षीयसम्बोधने विधायकः गोपालशर्मा उक्तवान् यत् १८५७ तमवर्षस्य क्रान्तिः स्वातन्त्र्यचेतनायाः प्रथमः शङ्खनादः आसीत्। युवभिः स्वस्य गौरवशालिनः इतिहासात् प्रेरणां गृहीत्वा राष्ट्रनिर्माणे योगदानं दातव्यम्। विधायकः शर्मा उक्तवान् यत् राजस्थानस्य वीरशिरोमणिः महाराणाप्रतापस्य जीवनं राष्ट्रभक्तेः पराक्रमस्य त्यागस्य च प्रतीकम् अस्ति।
---------------
हिन्दुस्थान समाचार