सोमनाथ स्वाभिमान पर्व 11 मई तमे दिनांके : प्रदेशस्य समग्रस्य शिवालयेषु भविष्यति विशिष्टम् आयोजनम्
जयपुरम्, 09 मईमासः (हि.स.)। सोमनाथमन्दिरस्य प्रथमाक्रमणस्य सहस्रवर्षपूर्तेः तथा मन्दिरपुनर्निर्माणस्य पञ्चसप्ततिवर्षपूर्तेः उपलक्ष्ये ११ मई २०२६ दिनाङ्के देशव्यापी “सोमनाथस्वाभिमानपर्व” इति उत्सवः आयोज्यते। भारतसर्वकारस्य कला-संस्कृतिमन्त्रालयस्य
सोमनाथ स्वाभिमान पर्व 11 मई को: प्रदेशभर के शिवालयों में होंगे विशेष आयोजन


जयपुरम्, 09 मईमासः (हि.स.)।

सोमनाथमन्दिरस्य प्रथमाक्रमणस्य सहस्रवर्षपूर्तेः तथा मन्दिरपुनर्निर्माणस्य पञ्चसप्ततिवर्षपूर्तेः उपलक्ष्ये ११ मई २०२६ दिनाङ्के देशव्यापी “सोमनाथस्वाभिमानपर्व” इति उत्सवः आयोज्यते। भारतसर्वकारस्य कला-संस्कृतिमन्त्रालयस्य निर्देशानुसारं राजस्थानराज्ये अपि राज्यस्तरे जिलास्तरे च भव्यकार्यक्रमाः भविष्यन्ति। भारतसर्वकारस्य कला-संस्कृतिमन्त्रालयस्य तथा राजस्थानसर्वकारस्य कला-साहित्य-संस्कृति-पुरातत्त्वविभागस्य देवस्थानविभागस्य च संयुक्ततत्त्वावधाने प्रदेशस्य प्रमुखेषु शिवालयेषु विशेषपूजार्चना धार्मिककार्यक्रमाः राष्ट्रियकार्यक्रमस्य सजीवप्रसारणं च आयोज्यते।

मुख्यराष्ट्रियकार्यक्रमः गुजरातराज्यस्य सोमनाथक्षेत्रे प्रधानमन्त्रिणः नरेन्द्र मोदिनः उपस्थितौ आयोज्यते, यस्य सजीवप्रसारणं राजस्थानस्य सर्वेषु प्रमुखशिवालयेषु प्रदर्श्यते। जयपुरनगरस्य झारखण्डमहादेवमन्दिरे मुख्यमन्त्रिणःभजनलालशर्मणो मुख्यातिथ्ये राज्यस्तरीयकार्यक्रमः भविष्यति।

कला-संस्कृतिविभागस्य शासनसचिवा शुचि त्यागी उक्तवती यत् अस्य कार्यक्रमस्य उद्देश्यं सोमनाथमन्दिरस्य ऐतिहासिक-सांस्कृतिक-आध्यात्मिकमहत्त्वस्य जनसामान्यपर्यन्तं प्रसारणम् अस्ति। कार्यक्रमस्य सफलसञ्चालनार्थम् अनुराधा गोगिया राज्यनोडलाधिकारीरूपेण नियुक्ता अस्ति।

देवस्थानायुक्तः लक्ष्मीनारायणमन्त्री उक्तवान् यत् प्रदेशस्य सर्वेषु ४१ जिल्लासु प्रमुखशिवालयेषु विशेषकार्यक्रमाः आयोज्यन्ते। एतेषु जयपुरस्य झारखण्डमहादेवमन्दिरम्, उदयपुरस्य महाकालेश्वरमहादेवः, अजमेरस्य कोटेश्वरमहादेवः, पालीजिल्लायाः सोमनाथमहादेवः, जोधपुरस्य पातालेश्वरमहादेवः, बीकानेरस्य शिखरबन्दमहादेवः इत्यादयः प्रमुखशिवालयाः सम्मिलिताः सन्ति।

कार्यक्रमस्य प्रचारप्रसारार्थं सूचना-जनसम्पर्कविभागेन मुद्रितमाध्यमैः इलेक्ट्रॉनिकमाध्यमैः सामाजिकमाध्यमैः च व्यापकप्रचारअभियानं संचाल्यते। देवस्थानविभागेन प्रदेशवासिनः आहूताः यत् ते ११ मई दिनाङ्के स्वनिकटस्थं शिवालयं गत्वा अस्मिन् ऐतिहासिककार्यक्रमे सहभागिनः भवन्तु।

---------------

हिन्दुस्थान समाचार