कुंभ-आपदा-पेयजलयोजनाभ्यः 256 कोटिरूप्यकाणाममिलद्वित्तीया सहमतिः
देहरादूनम्, 09 मईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी राज्यस्य विविधविकासयोजनानां तथा कुम्भमेला-२०२७ सम्बद्धपरियोजनानां कृते कुलं २५६ कोटिरूप्यकाणां वित्तीयस्वीकृतिं प्रदत्तवान्। मुख्यमन्त्रिणा आपदाप्रबन्धनम्, पेयजलयोजनाः, मार्गसुधारकार्याणि त
मुख्यमंत्री पुष्कर सिंह धामी बैठक लेते हुए।


देहरादूनम्, 09 मईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी राज्यस्य विविधविकासयोजनानां तथा कुम्भमेला-२०२७ सम्बद्धपरियोजनानां कृते कुलं २५६ कोटिरूप्यकाणां वित्तीयस्वीकृतिं प्रदत्तवान्। मुख्यमन्त्रिणा आपदाप्रबन्धनम्, पेयजलयोजनाः, मार्गसुधारकार्याणि तथा आधारभूतसंरचनाविकाससम्बद्धाः बहवः महत्त्वपूर्णप्रस्तावाः अनुमोदिताः।

मुख्यमन्त्री शनिवासरे राज्यआपदामोचननिधेः अन्तर्गतं पञ्चदशवित्तायोगस्य अवशिष्टधनराशेः प्रत्येकजनपदाय रक्षण-उद्धारमदे ३ कोटिरूप्यकाणि, पुनर्प्राप्ति-पुनर्निर्माणमदे ५ कोटिरूप्यकाणि तथा तैयारी-क्षमताविकासमदे २ कोटिरूप्यकाणि, एवं प्रति जनपदं १० कोटिरूप्यकाणां दरেণ कुलं १३० कोटिरूप्यकाणि विमोचितुं स्वीकृतिं दत्तवान्। तेन सह वित्तीयवर्षे २०२६-२७ मध्ये जिलाधिकारिणां कृते आपदया क्षतिग्रस्तसम्पत्तीनां पुनर्निर्माणार्थं कुलं २६ कोटिरूप्यकाणां स्वीकृतिः अपि प्रदत्ता।

कुम्भमेला-२०२७ सिद्धतायाः अन्तर्गतं राष्ट्रियराजमार्ग-५८ तः औद्योगिकक्षेत्रपर्यन्तं चतुर्लेनमार्गस्य नवीनीकरणार्थं २.७२ कोटिरूप्यकाणि, पथुलोकबैराजमार्गस्य सुधारकार्याय २.१३ कोटिरूप्यकाणि तथा बहादराबाद-रोहाल्की-तिराहातः अलीपुर-सुकरासा-पथरी-अम्बूवालामार्गस्य नवीनीकरणार्थं १.३६ कोटिरूप्यकाणि स्वीकृतानि।

मुख्यमन्त्री देहरादूनजनपदस्य पित्थूवालाशाखाक्षेत्रे कमलापैलेस तथा जीएमएसमार्गक्षेत्रे नलकूपनिर्माणम्, राइजिंगमेन तथा वितरणप्रणालीसम्बद्धकार्याणां कृते २०.३७ कोटिरूप्यकाणां स्वीकृतिं प्रदत्तवान्। एतदतिरिक्तं एसएएससीआई कार्यक्रमस्य अन्तर्गतं रुद्रप्रयागस्य तिलवाड़ानगरपञ्चायत् पेयजलयोजनार्थं ३९.८६ कोटिरूप्यकाणि, चमोलीजनपदस्य पीपलकोटीनगरपञ्चायत् पेयजलयोजनार्थं २४.३८ कोटिरूप्यकाणि तथा टिहरीगढ़वालस्य हिण्डोलाखालपम्पिंगपेयजलयोजनार्थं ९.७३ कोटिरूप्यकाणां धनराशिः स्वीकृता।

मुख्यमन्त्री पुष्करसिंहधामी रुड़कीनगरनिगमक्षेत्रस्य सुनहरामार्गचतुष्पथस्य नाम “शहीदचौक” इति करणस्य प्रस्तावम् अपि अनुमोदितवान्।

हिन्दुस्थान समाचार