Enter your Email Address to subscribe to our newsletters

लखनऊ, ०९ मईमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः उपस्थितौ शनिवासरे कोलकाता-नगरे पश्चिमबङ्गालस्य नूतन-सर्वकारस्य भव्यः शपथग्रहणसमारोहः सम्पन्नः। अस्मिन् अवसरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अपि उपस्थितः आसीत्। तेन मुख्यमन्त्रीपदस्य शपथं गृहीतवन्तं शुभेन्दु-अधिकारी अभिनन्दितवान् तथा तस्य उज्ज्वल-कार्यकालाय शुभकामनाः अपि प्रदत्ताः। सहैव योगिना तस्मै मञ्चे भगववर्णीयम् अङ्गवस्त्रम् अपि धृतम्।
मुख्यमन्त्री-योगी-आदित्यनाथेन शनिवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र लेखः प्रकाशितः। तेन लिखितम् यत्— “पश्चिमबङ्गालस्य मुख्यमन्त्रिणः रूपेण शपथग्रहणाय शुभेन्दु-अधिकारी-महाभागाय हार्दिक्यः शुभकामनाः।” तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने तथा भवतः ऊर्जस्विनि नेतृत्वे ‘सोनार-बाङ्ग्ला’ इति सङ्कल्पः सिद्धिं गमिष्यति तथा च प्रदेशः सांस्कृतिक-आध्यात्मिक-आर्थिक-उत्थानस्य अमृतकाले प्रवेशं करिष्यति।
मुख्यमन्त्रिणा लिखितम् यत् अधिकारी-महाभागस्य कार्यकालः बङ्गालस्य जनजनस्य आकाङ्क्षाणां पूर्तेः लोकतान्त्रिक-मूल्यानां पुनर्स्थापनायाश्च स्वर्णिम-अध्यायः भविष्यति, माता-कालीं प्रति एषा एव प्रार्थना अस्ति।
मुख्यमन्त्री-योगी-आदित्यनाथेन सर्वेभ्यः मन्त्रिभ्यः अपि शुभकामना: प्रदत्ताः। तेन लिखितम्— “पश्चिमबङ्गाले मन्त्रिपदस्य शपथं गृहीतवन्तः सर्वे नेतारः अपि हृदयतलात् अभिनन्दनीयाः। पूर्णः विश्वासः अस्ति यत् यूयं सर्वे जनसेवां सर्वोपरि मत्वा ‘सोनार-बाङ्ग्ला’ इत्यस्य गौरवं पुनर्स्थापयिष्यथ। माता-कालीकृपया भवतां सर्वेषां कार्यकालः यशस्वी लोककल्याणकारी च भवतु। वन्दे मातरम्।”
उल्लेखनीयम् अस्ति यत् निर्वाचन-प्रचारस्य समये शुभेन्दु-अधिकारी-महाभागेन एका जनसभायां मुख्यमन्त्री योगी-आदित्यनाथाय भगवाङ्गवस्त्रं धारयित्वा बङ्गालधरण्यां तस्य स्वागतं कृतम् आसीत्। अनन्तरं तेन तस्य चरणयोः दण्डवत्प्रणामं कृत्वा स्वश्रद्धा निवेदिता आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani