Enter your Email Address to subscribe to our newsletters

-काश्यामवदन् कार्यकर्तारः,सनातन संस्कृतये एवं हिंदू समाजाय च नूतनस्वतंत्रतायाः सम्मानस्य प्राप्तिः
वाराणसी, 09 मईमासः (हि.स.)।पश्चिम-बङ्गाले भारतीय-जनता-पार्टी इत्यस्य ऐतिहासिक-विजयस्य अनन्तरं शनिवासरे शासन-गठनस्य तत्क्षणमेव धर्मनगरी काश्यां दलीय-पृष्ठ-वर्ग-मोर्चायाः कार्यकर्तारः दशाश्वमेध-घाटे वैदिक-मन्त्र-उच्चारणेन सह गङ्गामातरः पूजनं दुग्धाभिषेकं च अकुर्वन्।
मोर्चायाः क्षेत्रीय-उपाध्यक्षस्य अनूप-जायसवालस्य नेतृत्वे कार्यकर्तारः गङ्गामातरं सम्पूज्य पश्चिम-बङ्गाले शुभेन्दु-अधिकारी-शासनस्य सफलतां प्रार्थितवन्तः। उपस्थितैः कार्यकर्तृभिः तस्मिन् अवसरे बङ्गाले मृतानां तेषां पार्टी-कार्यकर्तॄणां श्रद्धाञ्जलिरपि अर्पिता, ये भाजपा-ध्वजस्य विजयार्थं संघर्षं कुर्वन्तः स्वप्राणानाम् आहुति दत्तवन्तः।
मोर्चायाः क्षेत्रीयाध्यक्षः अनूप-जायसवाल उक्तवान् यत् अद्यतनः दिवसः सनातन-धर्मानुयायिनां गौरवस्य आत्मसम्मानस्य च प्रतीकः अस्ति। अधुना राज्ये ‘भयमुक्त-प्रशासनस्य’ युगस्य आरम्भः भविष्यति। शासकीय-संस्थाः निष्पक्ष-रीत्या कार्यं करिष्यन्ति।
क्षेत्रीय-उपाध्यक्षः सोमनाथ-विश्वकर्मा उक्तवान् यत् गङ्गोत्री-प्रदेशात् गङ्गासागर-पर्यन्तं भारतीय-जनता-पार्टी इत्यस्य पताका लहरिता अस्ति। पश्चिम-बङ्गाले प्रायः सप्तत्यधिक-वर्षाणां अनन्तरं सनातन-संस्कृतेः हिन्दू-समाजस्य च नूतना स्वाधीनता सम्मानश्च प्राप्तः। तुष्टीकरण-राजनीतेः अन्तः भविष्यति।
अन्यैः नेतृभिः बङ्गाल-विजये भारतस्य प्रधानमन्त्री नरेंद्र-मोदी, केन्द्रीय-गृहमन्त्री अमित-शाह, पार्टीय-बङ्गाल-प्रभारी भूपेन्द्र-यादव, राष्ट्रीय-महामन्त्री सुनील-बंसल तथा उत्तर-प्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथ इत्येषाम् उल्लेखः कृत्वा तेषां प्रतीकरूपेण अभिनन्दनं कृतम्। ते उक्तवन्तः यत् एतेषां नेतृत्वे राष्ट्रवादः सनातन-संस्कृतिश्च नूतनां शक्तिं प्राप्तवती।
कार्यक्रमस्य सञ्चालनं ओमप्रकाश-यादवः ‘बाबू’ तथा राजेश-दुबे इत्येताभ्यां कृतम्। धन्यवाद-ज्ञापनं विकास-यादव नवीन-कसेरा च संयुक्तरूपेण अकुरुताम्। गङ्गा-पूजनं पण्डित-कृष्णकान्तस्य आचार्यत्वे सम्पन्नम्।
कार्यक्रमे धीरेंद्र-शर्मा, शंकर-जायसवाल, चन्द्र-विजय-सिंह, कुलदीप-वर्मा, संजय-गुप्ता, राहुल-श्रीवास्तव, सुनील-शर्मा, अखिल-वर्मा इत्यादयः सहभागित्वं कृतवन्तः।
हिन्दुस्थान समाचार