Enter your Email Address to subscribe to our newsletters

रुद्रप्रयाग-जनपदः, ०९ मईमासः (हि.स.)। राज्यपालः लेफ्टिनेंट-जनरल गुरमीत-सिंहः (से.नि.) शनिवासरे केदारनाथ-धामं प्राप्तवान्। तत्र तेन बाबा-केदारस्य दर्शनं कृत्वा चतुर्धाम-यात्रा-व्यवस्थानां, पुनर्निर्माण-कार्याणां तथा श्रद्धालुभ्यः उपलब्धीकृत-सुविधानां निरीक्षणं कृतम्। अस्मिन् अवसरे तेन विश्व-कल्याणस्य, मानवतायाः समृद्धेः, उत्तराखण्डस्य सतत-विकासस्य च कामना कृता।
राज्यपालेन अत्यल्प-समये बाबा-केदारस्य दर्शनं कृतम्, येन श्रद्धालूनां दर्शन-व्यवस्था प्रभाविताऽ नाभवत्। प्रशासन-पक्षतः दर्शन-प्रक्रिया अवरुद्धा न कृत्वा सुचारु-रूपेण सञ्चालिता, यस्मिन् विषये राज्यपालेन सन्तोषः व्यक्तः तथा जनपद-प्रशासनस्य सम्बन्धित-अधिकारिणां च प्रशंसा कृता।
धाम-भ्रमणस्य समये राज्यपालेन विभिन्न-राज्येभ्यः आगतैः श्रद्धालुभिः सह संवादः कृत्वा यात्रा-व्यवस्थानां विषये विचारा: प्रतिपुष्टयः च प्राप्ताः। श्रद्धालुभिः यात्रा-मार्गस्य, सुरक्षायाः, स्वास्थ्य-सेवानां, स्वच्छतायाः तथा दर्शन-व्यवस्थायाः विषये सन्तोषः व्यक्तः।
राज्यपालेन उक्तं यत् बाबा-केदारस्य दर्शनम् आध्यात्मिक-अनुभूतेः सौभाग्यस्य च विषयः अस्ति। तेन उक्तं यत् चतुर्धाम-यात्रां सुव्यवस्थितां सुरक्षितां च कर्तुं प्रशासनम्, आरक्षक-विभागः, स्थानीय-जनाः, स्वयंसेवी-संस्थाः, सेवा-कार्येषु संलग्नाः जनाः च वर्षपर्यन्तं समर्पित-भावेन कार्यं कुर्वन्ति। राज्यपालेन श्रद्धालुभ्यः सामान्य-जनेभ्यश्च केदारनाथ-धाम-सहिते सम्पूर्ण-चतुर्धाम-क्षेत्रे स्वच्छता पालनस्य आह्वानं कृतम्। तेन उक्तं यत् एषा पावना भूमिः आध्यात्मिक-ऊर्जायाः, शान्तेः, स्वच्छतायाः च प्रतीकं वर्तते तथा अस्याः पवित्रतायाः संरक्षणं सर्वेषां सामूहिकम् उत्तरदायित्वम् अस्ति।
तेन यात्रा-संबद्ध-अधिकारिभ्यः, कर्मचारिभ्यः, सेवा-दलेभ्यश्च “अतिथि-देवो-भव” इति भावनया श्रद्धालुभ्यः उत्तम-सुविधाः प्रदातुं आग्रहः कृतः। राज्यपालेन उक्तं यत् स्वच्छं सुव्यवस्थितं च धाम श्रद्धालुभ्यः श्रेष्ठ-अनुभवं प्रदाति तथा अग्रिम-वंशानां कृतेऽपि अस्य गरिमां सुरक्षितां धारयति।
राज्यपालेन धामे सञ्चालितानां पुनर्निर्माण-विकास-कार्याणां स्थलीय-निरीक्षणम् अपि कृतम्। तेन अधिकारिणः गुणवत्तया समयबद्धतया च कार्याणि पूर्णीकर्तुं निर्देशिताः। राज्यपालेन श्रद्धालुभ्यः उत्तराखण्डस्य स्थानीय-उत्पादानां, हस्तशिल्पानां, स्वयं-सहायता-समूहैः निर्मित-वस्तूनां च क्रयणस्य अपीलं कृतम्। तेन उक्तं यत् चतुर्धाम-यात्रा राज्यस्य आर्थिकी-सांस्कृतिक-परिचयाभ्यां सह अपि सम्बद्धा अस्ति तथा अस्याः माध्यमेन स्थानीय-व्यापारिभ्यः जनभ्यश्च आर्थिक-लाभः भवति।
अस्मिन् अवसरे केदार-सभायाः महामन्त्री राजेन्द्र-प्रसाद-तिवारी, वरिष्ठ-तीर्थ-पुरोहितः उमेश-चन्द्र-पोस्ती, विनीत-पोस्ती, ब्लॉक-प्रमुखः पङ्कज-शुक्लः, पुलिस-अधीक्षकः नीहारिका-तोमर, यात्रा-मजिस्ट्रेट् कृष्णा-त्रिपाठी इत्यादयः बहुसंख्याकाः श्रद्धालवः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता