चरित्र-निर्माणस्य प्रयोगशाला शान्तिकुञ्जस्य बाल-संस्कारशाला : शैफाली-पण्ड्या
हरिद्वार-नगरम्, ०९ मईमासः (हि.स.)। गायत्री-तीर्थ-शान्तिकुञ्जे संस्थायाः अधिष्ठात्र्याः शैलभगिन्या: मार्गदर्शने सञ्चालिता बाल-संस्कारशाला बालकानां सर्वाङ्गीण-विकासस्य संस्कार-निर्माणस्य च दिशि निरन्तरं महत्त्वपूर्णां भूमिकां निर्वहति। अत्र बालानां श
प्रस्तति देती छात्राएं


हरिद्वार-नगरम्, ०९ मईमासः (हि.स.)। गायत्री-तीर्थ-शान्तिकुञ्जे संस्थायाः अधिष्ठात्र्याः शैलभगिन्या: मार्गदर्शने सञ्चालिता बाल-संस्कारशाला बालकानां सर्वाङ्गीण-विकासस्य संस्कार-निर्माणस्य च दिशि निरन्तरं महत्त्वपूर्णां भूमिकां निर्वहति। अत्र बालानां शिक्षया सह नैतिकता, अनुशासनम्, संस्कृति:, सेवा, सद्भावः इत्यादीनां जीवनोपयोगि-मूल्यानां प्रशिक्षणं प्रदीयते।

अस्यैव क्रमस्य अन्तर्गतं बाल-संस्कारशाला-विभागेन सांस्कृतिक-सन्ध्यायाः आयोजनं कृतम्, यस्मिन् बालकैः स्वकीयाभिः आकर्षक-प्रस्तुतिभिः संस्कृति-संस्कारयोः सुन्दरं दर्शनं प्रदर्श्य सर्वेषां मनांसि मोहितानि।

अस्य पूर्वं कार्यक्रमस्य शुभारम्भः महिला-मण्डल-प्रमुखया श्रीमती-शैफाली-पण्ड्यया दीप-प्रज्वलनेन सह कृतः। अस्मिन् अवसरे बाल-संस्कारशालायाः बालकैः स्वागत-गीतं प्रस्तूय अतिथीनाम् अभिनन्दनं कृतम्।

अस्मिन् अवसरे शैफाली-पण्ड्या उक्तवती यत् शान्तिकुञ्जस्य बाल-संस्कारशाला केवलं बालकानां प्रतिभा-विकासस्य केन्द्रं नास्ति, अपितु श्रेष्ठ-चरित्र-निर्माणस्य प्रयोगशाला अस्ति। अत्र बालकेषु संस्काराणां, संवेदनशीलतायाः, सकारात्मक-जीवन-दृष्टेः च विकासः क्रियते, येन ते भविष्ये आदर्श-नागरिकाः भवितुं शक्नुवन्ति। गायत्री-विद्यापीठस्य व्यवस्था-मण्डल-प्रमुखा श्रीमती-पण्ड्या उक्तवती यत् बाल्यकाले प्रदत्ताः संस्काराः व्यक्तेः सम्पूर्ण-जीवनस्य दिशां निर्धारयन्ति। यदि बालकाः प्रारम्भादेव नैतिक-मूल्यैः भारतीय-संस्कृत्या च सह सम्बद्धाः क्रियेरन्, तर्हि ते समाजस्य राष्ट्रस्य च प्रेरणास्रोतांसि भवितुं शक्नुयुः।

व्यवस्थापकः योगेन्द्र-गिरिः उक्तवान् यत् शान्तिकुञ्जस्य उद्देश्यं केवलं शिक्षां दातुं नास्ति, अपितु एतादृशं वंशं निर्मातुं यतते या मानवीय-मूल्यैः सम्पन्ना भूत्वा समाज-निर्माणे सक्रियां भूमिकां निर्वहेत्। सांस्कृतिक-सन्ध्यायां बालकैः मातृ-वन्दना, एक्शन-सॉङ्ग:, गरबा-नृत्यम्, योगासनानि, अन्याः प्रेरणाप्रदाः सांस्कृतिक-प्रस्तुतयः च माध्यमीकृत्य भारतीय-संस्कृतेः संस्काराणां च सुन्दरं दृश्यं प्रस्तुतम्। बालकानाम् अनुशासिताः, आत्मविश्वासपूर्णाः, भावपूर्णाश्च प्रस्तुतयः उपस्थित-जनसमूहं भावविभोरं कृतवन्तः। कार्यक्रमे अभिभावकैः उपस्थित-श्रद्धालुभिश्च बालकानां प्रतिभायाः मुक्तकण्ठेन प्रशंसा कृता।

कार्यक्रमस्य अन्ते महिला-मण्डलस्य वरिष्ठ-भगिन्यः परिजनाश्च बालकानाम् उत्साहवर्धनं कृत्वा तेषां उज्ज्वल-भविष्यस्य मङ्गलकामनाः व्यक्तवन्तः। अस्मिन् अवसरे विभिन्न-प्रान्तेभ्यः आगताः साधकाः, शिविरार्थिनां बालकाः, भारती-नागरः, श्वेता-पटेलः, सुमन-शाही इत्यादयः प्रशिक्षक-भगिन्यः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता