Enter your Email Address to subscribe to our newsletters

वाराणसी, 09 मईमासः (हि. स.)।
पश्चिमबङ्गे शुभेन्द्वधिकारिणः मुख्यमन्त्रिपदस्य शपथग्रहणसमारोहे उत्तरप्रदेशस्य वाराणसीनगरात् बङ्गीयसमाजस्य प्रमुखपदाधिकारिणां उपस्थितिः आसीत्। बङ्गीयसमाजस्य पदाधिकारिणः शुभेन्द्वधिकारी महोदयाय मुख्यमन्त्रिपदप्राप्त्यर्थं अभिनन्दनं प्रदाय उक्तवन्तः यत् पश्चिमबङ्गे भाजपादलस्य विजयलक्ष्यस्य प्राप्तौ महत्त्वपूर्णां भूमिकां निर्वहन् शुभेन्द्वधिकारी अद्य मुख्यमन्त्री अभवत्, अस्माकं सर्वेषां कृते एषः महानन्दस्य विषयः अस्ति। मुख्यमन्त्रिरूपेण शुभेन्द्वधिकारी पश्चिमबङ्गस्य विकासं करोतु, इति अस्माकं कामना अस्ति। युवा-क्षेत्रे, महिला-क्षेत्रे, व्यापार-उद्योग-शिक्षाक्षेत्रेषु च महान् विकासस्य आवश्यकता वर्तते।
वाराणसीनगरात् शपथग्रहणसमारोहं प्राप्तः बङ्गीयसमाजस्य वरिष्ठपदाधिकारी चन्दनदासगुप्तः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाह, रक्षामन्त्री राजनाथसिंह, मुख्यमन्त्री योगीआदित्यनाथ सहितानां बहूनां गणमान्यजनानां उपस्थितौ वाराणसीतः आगत्य वयं सर्वे शुभेन्द्वधिकारी-दा इत्यस्मै अभिनन्दनं प्रदत्तवन्तः। पश्चिमबङ्गस्य मुख्यमन्त्रिरूपेण शुभेन्द्वधिकारी अतीव शोभनः दृश्यते। पश्चिमबङ्गे भाजपासरकारस्य निर्माणेन अधुना तत्र विकासः भविष्यति। एतत् सत्यं यत् भाजपादलं विकासप्रधानं दलम् अस्ति। शुभेन्द्वधिकारी-दा निश्चितरूपेण पश्चिमबङ्गे विकासकार्याणि करिष्यति।
---------------
हिन्दुस्थान समाचार