Enter your Email Address to subscribe to our newsletters

कोलकाता, 09 मईमासः (हि.स.)।
कोलकातानगरस्य ऐतिहासिके ब्रिगेड्-परेड्-ग्राउण्ड् इत्यत्र शनिवासरे पश्चिमबङ्गराज्यस्य प्रथम-भाजपासर्वकारस्य शपथग्रहणसमारोहः आयोजितः। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह सहिताः भारतीयजनतापार्टी-शासितराज्यानां मुख्यमन्त्रिणः वरिष्ठनेतारश्च समारोहे उपस्थिताः आसन्।
भाजपाविधायकदलस्य नेतारूपेण चयनानन्तरं शुभेन्द्वधिकारी पश्चिमबङ्गस्य मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। तेन सह पञ्च मन्त्रिणः अपि शपथग्रहणं कृतवन्तः। नूतनभाजपासरकारस्य प्रथममन्त्रिपरिषदि उत्तरबङ्ग-दक्षिणबङ्गयोः उभयोरपि क्षेत्रयोः प्रतिनिधित्वं प्रदत्तम् अस्ति। मन्त्रिमण्डले आदिवासी-मतुआ-राजबंशी-समाजानां नेतारः अपि समाविष्टाः सन्ति।
शुभेन्द्वधिकारिणा सह ये नेतारः मन्त्रिपदस्य शपथं गृहीतवन्तः, तेषु दिलीपघोष, अग्निमित्रापाल, अशोककीर्तनिया, निशीथप्रमाणिक तथा खुदीरामटुडू समाविष्टाः सन्ति। तथापि, अद्यापि विभागानां विभाजनं न कृतम्।
मुख्यमन्त्री शुभेन्द्वधिकारी भवानीपुर-नन्दीग्राम-निर्वाचनक्षेत्राभ्यां विजयप्राप्त्या विधानसभां प्राप्तवान्। दिलीपघोषः खड्गपुर-सदर-क्षेत्रात्, अग्निमित्रापाल आसनसोल-दक्षिण-क्षेत्रात्, अशोककीर्तनिया बनगांव-उत्तर-क्षेत्रात्, खुदीरामटुडू रानीबांध-क्षेत्रात् तथा निशीथप्रमाणिक माथाभांगा-क्षेत्रात् विजयम् अलभन्त।
तथापि, अद्यापि सम्पूर्णमन्त्रिमण्डलस्य गठनं न सम्पन्नम्। आशा क्रियते यत् शीघ्रमेव शुभेन्द्वधिकारी स्वमन्त्रिमण्डलस्य विस्तारं करिष्यति।
उल्लेखनीयम् अस्ति यत् चतुर्थमे दिनाङ्के घोषितेषु विधानसभानिर्वाचनपरिणामेषु भाजपादलेन २०७ स्थानानि जित्वा ऐतिहासिकबहुमतं प्राप्तम्। निर्वाचनपरिणामानन्तरं मुख्यमन्त्रिपदाय शुभेन्द्वधिकारीणः नाम सर्वाधिकं चर्चितम् आसीत्। शुक्रवासरे भाजपाविधायकदलस्य सभायां केन्द्रीयगृहमन्त्री अमितशाहः आधिकारिकरूपेण तस्य नाम्नः घोषणां कृतवान्।
अमितशाहः उक्तवान् यत् विधायकदलस्य सभायां मुख्यमन्त्रिपदाय प्राप्तेषु सर्वेषु प्रस्तावेषु केवलं शुभेन्द्वधिकारीणः नाम एव आसीत्, अन्यस्य कस्यापि नाम्नः प्रस्तावः न प्राप्तः। ततः परं सः सर्वसम्मत्याः पश्चिमबङ्गस्य मुख्यमन्त्री इति घोषितः।
---------------
हिन्दुस्थान समाचार