Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ मईमासः (हि.स.)। पश्चिम-बङ्गाल-प्रदेशे शनिवासरे प्रथमवारं भारतीय-जनता-पक्षस्य सर्वकारः स्थाप्यते। ममता-बैनर्जी इत्येतां द्विवारं पराजितवान् शुभेन्दु-अधिकारी राज्यस्य दायित्वं स्वीकरिष्यति। कोलकाता-नगरस्य ब्रिगेड-परेड-प्राङ्गणे अद्य भविष्यमाणे शपथ-ग्रहण-समारोहे प्रधानमन्त्री नरेन्द्र-मोदी, गृहमन्त्री अमित-शाहः, भाजपा-अध्यक्षः नितिन-नबीनः तथा एनडीए-शासित-राज्यानां अनेक- मुख्यमन्त्रिणः सहभागित्वं करिष्यन्ति। २९४-स्थानयुक्तायां पश्चिम-बङ्गाल-विधानसभायां भाजपापक्षः २०७ स्थानानि विजित्य ममता-बैनर्जी इत्येतां सत्तातः बहिः कृतवान्। राज्ये १५ वर्षाणि यावत् शासनं कृतवत्याः ममता-बैनर्जी-नेतृत्वयुक्तायाः तृणमूल-काङ्ग्रेस-पक्षस्य अस्मिन् निर्वाचनमध्ये ८१ स्थानानि प्राप्तानि।
अन्यत्र तमिलनाडु-प्रदेशे नूतन-सर्वकार-गठनं प्रति अनिश्चितता अद्यापि वर्तते। राज्यपालेन अद्यापि तमिलगा-वेत्री-कझगम (टीवीके)-अध्यक्षः सी.जोसेफविजयः सर्वकार-गठनाय निमन्त्रितः नास्ति। कथ्यते यत् विजयः अद्यापि बहुमत-संख्यायाः किञ्चित् पृष्ठतः अस्ति। टीवीके-पक्षं काङ्ग्रेस, सीपीआई, वीसीके तथा सीपीआईएम-पक्षाः समर्थनं कुर्वन्ति। तथापि वीसीके-पक्षस्य समर्थनविषये संशयः वर्तते, तथा यदि वीसीके-पक्षस्य उभौ विधायकौ आधिकारिकरूपेण टीवीके-पक्षं समर्थयेताम् तर्हि विजयस्य राज्याभिषेकः सुनिश्चितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता