Enter your Email Address to subscribe to our newsletters

कोलकाता, 09 मईमासः (हि.स.)।
मध्य-कोलकातानगरस्य डलहौजी-प्रदेशे स्थितां ऐतिहासिकीं राइटर्स् बिल्डिङ्ग् इति प्रसिद्धां भवनरचनां कः न जानाति। वर्षे १९४७ तः २०१३ पर्यन्तं एषा पश्चिमबङ्गस्य शासनतन्त्रस्य सर्वाधिकमहत्त्वपूर्णं केन्द्रम् आसीत्। किन्तु वर्षे २०११ तमे ममता बनर्जी मुख्यमन्त्रिणी अभवत्, ततः द्विवर्षानन्तरं अत्रत्याः प्रशासनिकक्रियाः शनैः शनैः समाप्ताः अभवन् तथा राज्यसचिवालयः नवान्न-भवनं प्रति स्थानान्तरितः। अधुना पुनः राइटर्स् बिल्डिङ्ग् इत्यस्य प्राचीनवैभवस्य पुनरागमनं भवितुम् अर्हति, यतः नूतनया भाजप-सरकारेण निर्णयः कृतः यत् शासनस्य कार्याणि पुनः अत्रैव सञ्चालितानि भविष्यन्ति।
राइटर्स् बिल्डिङ्ग् इत्यस्य निर्माणम् अष्टादशशताब्द्याः उत्तरार्धे अभवत्। वर्षे १७७७ तमे आङ्ग्लवास्तुशिल्पिना थॉमस् लायन् इत्यनेन अस्य रूपरेखा निर्मिता आसीत्। अस्य दक्षिणभागः लालदिघी-प्रदेशस्य उत्तरसीम्नः समानान्तररूपेण निर्मितः आसीत्। लालदिघी तथा राइटर्स् बिल्डिङ्ग् इत्योः मध्ये एका मार्गरेखा गच्छति, या अग्रे लालबाजार-प्रदेशं प्रति याति।
प्रारम्भे अस्य भवनस्य उपयोगः आङ्ग्लैः ईस्ट् इण्डिया कम्पनी इत्यस्य प्रशासनिककार्यालयरूपेण कृतः। कालान्तरे प्रशासनिकावश्यकताः यथा यथा वर्धिताः, तथा तथा अस्मिन् भवने अनेकानि परिवर्तनानि विस्तारकार्याणि च कृतानि। अनन्तरं यदा कोलकाता देशस्य राजधानी अभवत्, तदा राइटर्स् बिल्डिङ्ग् इत्यस्य महत्त्वम् अधिकं वर्धितम्। राजधानी देहलीनगरं प्रति स्थानान्तरितायामपि कोलकाता आङ्ग्लानां कृते अत्यन्तमहत्त्वपूर्णं स्थितम् आसीत् तथा राइटर्स् बिल्डिङ्ग् प्रशासनस्य प्रमुखकेन्द्ररूपेण स्थिता आसीत्।
स्वातन्त्र्यप्राप्तेः अनन्तरम् एतत् पश्चिमबङ्गस्य मुख्यमन्त्रिणः तथा राज्यसचिवालयस्य मुख्यकार्यालयम् अभवत्। अत्र मुख्यमन्त्रिणः कार्यालयस्य सह अनेकानि महत्त्वपूर्णानि शासकीयविभागकार्यालयानि अपि सञ्चालितानि आसन्। कथ्यते यत् अष्टादशशताब्द्याः अन्तिमकाले आङ्ग्लानां प्रशासनिककार्याणि अत्यधिकं वर्धितानि आसन्। लेखनपठनकार्याणि, अभिलेखसंग्रहः, सभाः, प्रशासनिकनिर्णयाः च इत्यर्थं विशालकार्यालयानां आवश्यकता अनुभूता। यतः अत्र बहुसंख्याकाः “राइटर्स्” अर्थात् लेखाजोखासम्बद्धप्रपत्रीयनिर्माणकर्तारः कर्मचारिणः उपविशतः स्म, अतः अस्य भवनस्य नाम “राइटर्स् बिल्डिङ्ग्” इति प्रसिद्धम् अभवत्।
राइटर्स् बिल्डिङ्ग् इत्यस्य कुलनिर्मितक्षेत्रफलम् प्रायः पञ्चलक्ष-पञ्चाशत्सहस्र-वर्गफुट् परिमितम् इति कथ्यते। नवान्न-भवनं प्रति सचिवालयस्य स्थानान्तरणात् पूर्वम् अत्र मुख्यमन्त्रिकार्यालयस्य अतिरिक्तं राज्यसरकारस्य चतुस्त्रिंशत् विभागाः सञ्चालिताः आसन्। एतेषु विभागेषु कार्यरताः षट्सहस्राधिकाः कर्मचारिणः अत्रैव उपविश्य शासकीयकार्याणि सञ्चालयन्तः सञ्चिकानां निवर्तनं कुर्वन्तः आसन्।
---------------
हिन्दुस्थान समाचार