पश्चिम बंगालस्य नवमेन मुख्यमंत्रिरूपेण शुभेंदु अधिकारी अगृह्णात् शपथवचनम्
कोलकाता, 09 मईमासः (हि.स.)। शुभेन्द्वधिकारिणा भारतीयजनतापार्टीदलस्य नेतुः, येन ममताबनर्जी इत्यस्याः तृणमूलकाङ्ग्रेसदलाध्यक्षायाः पश्चिमबङ्गविधानसभानिर्वाचने घोरपराजयः प्रदत्तः, सः पश्चिमबङ्गस्य नवममुख्यमन्त्रिरूपेण शपथं गृहीतवान्। शनिवासरे प्रातःका
भाजपा विधायक दल की बैठक में नेता चुने जाने के बाद सुवेंदु अधिकारी को बधाई देते केंद्रीय गृह मंत्री अमित शाह


कोलकाता, 09 मईमासः (हि.स.)। शुभेन्द्वधिकारिणा भारतीयजनतापार्टीदलस्य नेतुः, येन ममताबनर्जी इत्यस्याः तृणमूलकाङ्ग्रेसदलाध्यक्षायाः पश्चिमबङ्गविधानसभानिर्वाचने घोरपराजयः प्रदत्तः, सः पश्चिमबङ्गस्य नवममुख्यमन्त्रिरूपेण शपथं गृहीतवान्। शनिवासरे प्रातःकाले कोलकातानगरस्य ऐतिहासिके ब्रिगेड् परेड् ग्राउण्ड् इत्यत्र आयोजिते शपथग्रहणसमारोहे राज्यपालः आर् एन रवि इत्यनेन शुभेन्द्वधिकारी महोदयाय पदगोपनीयतायाश्च शपथः प्रदत्ता। अस्मिन् शपथग्रहणसमारोहे नरेन्द्रमोदी, अमितशाहः, भाजपाशासितराज्यानां मुख्यमन्त्रिणः तथा च अनेकाः गणमान्यजनाः उपस्थिताः आसन्। शुभेन्द्वधिकारी महोदयस्य अतिरिक्तं भाजपादलस्य वरिष्ठनेतारः दिलीपघोष, अग्निमित्रापाल तथा अशोककीर्तनिया अपि पदगोपनीयतायाः शपथं गृहीतवन्तः। वार्तालिखनकालपर्यन्तं शपथग्रहणसमारोहः प्रचलितः आसीत्।---------------

हिन्दुस्थान समाचार / Dheeraj Maithani