Enter your Email Address to subscribe to our newsletters

दिल्ली/जयपुरनगरम्, १ जूनमासः (हि.स.)। भारतीय-जनता-पक्षः (भाजपा) राजस्थान-राज्यस्य संगठन-व्यवस्थायां दीर्घकालं यावत् रिक्तं प्रदेश-महामन्त्री-पदं पूरितम् अस्ति। पाशक्ष-राष्ट्रिय-महासचिवेन मुख्यालय-प्रभारिणा अरुणसिंहेन निर्गते संघटनात्मक-नियुक्ति-पत्रे उक्तम् अस्ति यत् पक्षस्य राष्ट्रियाध्यक्षेन नितिननवीनेन अजयकुमार: राजस्थान-प्रदेश-भाजपायाः प्रदेश-महामन्त्री (संगठन) पदे नियुक्तः कृतः। एषा नियुक्तिः तत्क्षण-प्रभावात् प्रवर्तिष्यते।
सोमवासरे निर्गते आदेशे उक्तम् यत् अजयकुमार: राजस्थान-भाजपायां संगठनात्मक-क्रियाकलापानां संचालनं, समन्वयं तथा विस्तार-सम्बद्धानि दायित्वानि निर्वहिष्यति। नियुक्ति-पत्रस्य प्रतिलिपिः सर्वेभ्यः राष्ट्रिय-पदाधिकारिभ्यः, प्रदेश-प्रभारिभ्यः, प्रदेशाध्यक्षेभ्यः तथा राजस्थान-राज्यस्य मुख्यमन्त्रिणे अपि प्रेषिता अस्ति।
उल्लेखनीयम् अस्ति यत् राजस्थान-भाजपायां प्रदेश-महामन्त्रीपदं १५ जनवरीमास: २०२४ तः चन्द्रशेखरस्य तेलंगाना-स्थानान्तरणानन्तरं रिक्तं आसीत्। प्रायः एकोन-त्रिंशत्-मासपर्यन्तं रिक्ते अस्मिन् पदे विषये संघटन-स्तरे कार्यकर्तृणां मध्ये सततं चर्चाः प्रचलिताः आसन्। संघटनात्मक-दृष्ट्या महत्त्वपूर्णे अस्मिन् पदे नियुक्त्या राजस्थान-भाजपायाः नूतनं संघटनात्मक-नेतृत्वं प्राप्तम्। अजय-कुमारस्य नियुक्त्या प्रदेश-संघटनस्य राज्य-सर्वकारस्य च मध्ये समन्वयः अपि नूतनां गतिं प्राप्स्यति इति अपेक्षा व्यक्ता अस्ति।
Hindusthan Samachar / Divya Ranjan