Enter your Email Address to subscribe to our newsletters

मंडी, 01 जूनमासः (हि.स.)।
विश्वविख्यातः आध्यात्मिकमार्गप्रदर्शकः परामर्शदाता प्रेरकवक्ता च बीकेशिवानी आगामि त्रिजूनदिनाङ्के मण्डीनगरस्य ऐतिहासिके पड्डलमैदाने स्वीयं प्रबोधनं प्रदास्यति। प्रजापिताब्रह्माकुमारीज्संस्थायाः पक्षतः आयोजितायां आध्यात्मिकसन्ध्यायां मण्डीजनपदस्य विभिन्नाञ्चलेभ्यः सहस्रशः जनाः बीकेशिवान्याः भावपूर्णवाण्याः श्रवणार्थं उपस्थिताः भविष्यन्ति।
ब्रह्माकुमारीज्संस्थामण्डीकेन्द्रस्य सञ्चालिका बीकेशीलादीदी अवदत् यत् त्रिजूनदिनाङ्के सायं पञ्चवादनात् अर्धषड्वादनपर्यन्तं सांस्कृतिककार्यक्रमस्य आयोजनं भविष्यति। ततः परं सायं षड्वादनात् अर्धअष्टवादनपर्यन्तं मुख्यकार्यक्रमः आयोज्यते।
मण्डीनगरे पत्रकारैः सह संवादं कुर्वन्ती बीकेशीलादीदी अवदत् यत् अस्मिन् कार्यक्रमे सहभागितायै प्रवेशः निःशुल्कः कृतः अस्ति। यस्य कृते ऑनलाइनपञ्जीकरणं क्रियते। अस्मिन् अवसरे मण्डीनगरात् अतिरिक्तं जोगिन्द्रनगर करसोग बालीचौकी पण्डोह सुन्दरनगर पधर चुराग भंगरोटू तल्यायहड बगस्याड रिवालसर सरकाघाट कोटली चैलचौक तथा सलापड आदिस्थानेभ्यः सहस्रशः जनाः कार्यक्रमे स्वीयाम् उपस्थितिं दास्यन्ति।
तया सूचितं यत् ऑनलाइनपास् द्विजूनदिनाङ्के प्रातः अष्टवादनात् मध्याह्नएकवादनपर्यन्तं तथा सायं चतुर्वादनात् अष्टवादनपर्यन्तं प्राप्तुं शक्यन्ते।
तया उक्तं यत् अस्मिन् कार्यक्रमे द्वादशवर्षात् अधिकवयस्काः जनाः सहभागितां कर्तुं शक्नुवन्ति। जनाः स्वसहितं जलपात्रं अवश्यं आनयन्तु तथा च नोप्लास्टिक् अभियानस्य दिशि एकं पदं अग्रे स्थापयन्तु।
तया उक्तं यत् प्रजापिताब्रह्माकुमारीज्विश्वविद्यालये आत्मनः उन्नतेः शिक्षा प्रदीयते। वर्तमानसमये विश्वम् अशान्तेः कालं अनुभवन्ति। वस्तुतः सर्वे आत्मानः एव सन्ति। वयं शरीराय भोजनं दद्मः किन्तु आत्मने भोजनं दातुं न शक्नुमः। यस्य कारणात् आत्मा अशान्ता भवति। आगामिसमये मण्डीनगरे त्रिदिवसीयराजयोगशिविरस्य आयोजनं भविष्यति येन अस्माकं जीवनस्य संस्काराणां च परिवर्तनं भवति। तया उक्तं यत् समस्याभ्यः कारणात् एव बालकाः नशायाः दिशि प्रवर्तन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani