Enter your Email Address to subscribe to our newsletters

पटना, 01 जूनमासः (हि.स.)। बिहारराज्ये रासायनिकोर्वरकाणां सन्तुलितप्रयोगं प्राकृतिककृषेः प्रोत्साहनं च लक्ष्यीकृत्य सोमवासरे राज्यव्यापी खेतबचाओ इत्यस्य अभियानस्य आरम्भः कृतः। कृषिमन्त्री विजयकुमारसिन्हा मीठापुरस्थितात् कृषिभवनात् शतशः कृषकाणां उपस्थितौ अभियानस्य शुभारम्भम् अकरोत्। एतत् अभियानं त्रिंशज्जूनदिनाङ्कपर्यन्तं सञ्चाल्यते।
अस्मिन् अवसरे कृषिमन्त्री अवदत् यत् खेतबचाओअभियानं केवलं भूमेः संरक्षणस्य प्रयासः नास्ति अपितु मानवीयस्वास्थ्यस्य पर्यावरणसंरक्षणस्य कृषकाणां समृद्धेः च सह सम्बद्धम् अस्ति। तेन उक्तं यत् रासायनिकउर्वरकाणां कीटनाशकानां च अत्यधिकप्रयोगेन भूमेः उर्वरता प्रभाविताभवति तथा च पर्यावरणस्य सह मानवस्वास्थ्ये अपि प्रतिकूलः प्रभावः जायते।
तेन उक्तं यत् अभियानस्य उद्देश्यं रसायनानाम् अत्यधिकप्रयोगेन भूमेः उर्वरशक्तेः जायमानहानिं निवारयितुम् अस्ति। प्राकृतिककृषेः अवलम्बनेन न केवलं भूमेः स्वास्थ्यं सुधारयितुं शक्यते अपितु परिवाराणां कृते स्वस्थजीवनमपि प्राप्तुं शक्यते। तेन कृषकान् गोमयस्य गोमूत्रस्य बीजामृतस्य च सदृशानां प्राकृतिकसंसाधनानां प्रयोगं वर्धयितुं प्रार्थितवान्।
कृषिमन्त्री अवदत् यत् भूमिपरीक्षणप्रतिवेदनैः स्पष्टं दृश्यते यत् रासायनिकउर्वरकाणाम् अन्धाधुन्धप्रयोगेन भूमौ पोषकतत्त्वानां सन्तुलनं शीघ्रं विनश्यति। अनेन उत्पादनक्षमतायामपि प्रभावः जायते। अतः खेतबचाओअभियानं कालस्य आवश्यकता जाता अस्ति।
तेन उक्तं यत् अभियानस्य मूलमन्त्रः सहीखाद और सहीसलाह इति अस्ति। कृषकैः स्वक्षेत्राणां मृदास्वास्थ्यकार्डं निर्मापयितव्यं तथा वैज्ञानिकपरामर्शानुसारमेव उर्वरकाणां प्रयोगः कर्तव्यः। अनेन कृषिव्ययः न्यूनः भविष्यति भूमेः गुणवत्ता सुधारिष्यते कृषकाणाम् आये अपि वृद्धिः भविष्यति।
विजयकुमारसिन्हा अवदत् यत् केन्द्रसरकारस्य नेशनलमिशनऑननेचुरलफार्मिंगयोजनायाः अन्तर्गतं बिहारस्य सर्वेषु अष्टत्रिंशत्जनपदेषु क्लस्टरआधारितप्राकृतिककृषेः प्रोत्साहनं क्रियते। अस्य कृते अष्टशतं कृषिसखीभ्यः जीविकादीदीभ्यश्च चयनं कृतम् अस्ति याभ्यः कृषकाणां प्रशिक्षणमार्गदर्शनयोः दायित्वं समर्पितम् अस्ति। एताभ्यः कृषिसखीभ्यः प्रतिमासं पञ्चसहस्ररूप्यकाणां प्रोत्साहनराशिरपि प्रदीयते।
तेन सूचितं यत् वित्तीयवर्षे २०२६ २७ कालखण्डे राज्यस्य विभिन्नजनपदेषु ११४ नवीनक्लस्टराणां गठनं भविष्यति तथा च ५७०० हेक्टेयरपरिमितक्षेत्रे प्राकृतिककृषेः प्रोत्साहनं भविष्यति। अस्याः योजनायाः अन्तर्गतं प्राकृतिककृषिं कुर्वद्भ्यः कृषकेभ्यः प्रति एकड ४००० रूप्यकाणां प्रोत्साहनराशिः प्रदास्यते। सह जैवोत्पादनसंसाधनकेन्द्रस्य स्थापनार्थं एकलक्षरूप्यकपर्यन्तं सहायता अपि प्रदास्यते।
कृषिमन्त्री अवदत् यत् प्राकृतिककृषेः प्रोत्साहनार्थं कृषकेभ्यः प्रमाणीकरणसुविधा अपि प्रदीयते। भारतसरकारेण अधिकृताभिः क्षेत्रीयपरिषद्भिः माध्यमेन प्राकृतिककृषेः प्रमाणीकरणाय प्रति हेक्टेयर २१०० रूप्यकाणां भुगतानं भविष्यति।
तेन कृषकान् रासायनिक-उर्वरकाणां विवेकपूर्णप्रयोगं मृदापरीक्षणं प्राकृतिककृषेः तकनीकानां च अवलम्बनार्थं आह्वानं कृत्वा उक्तं यत् अनेन कृषि अधिका दृढा लाभकारिणी पर्यावरणानुकूलाच भविष्यति।--------------
Hindusthan Samachar / Dheeraj Maithani