Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 01 जूनमासः (हि.स.) ।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा सोमवासरे महापुरुषस्य श्रीमन्त शङ्करदेवस्य प्रियशिष्यस्य श्रीश्रीमाधवदेवस्य पवित्राविर्भावतिथौ तस्मै श्रद्धापूर्वकं नमनं कृत्वा भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्रिणा स्वस्य सामाजिकमाध्यमसन्देशे उक्तं यत् श्रीश्रीमाधवदेवः भक्तेः, मानवतायाः तथा सामाजिकसमरसतायाः अमृतसन्देशस्य माध्यमेन समाजं एकतासूत्रे बद्धवान्। तस्य आदर्शाः, दर्शनम् तथा मूल्यबोधः युगयुगान्तरपर्यन्तं समाजं प्रकाशयिष्यति तथा च जनान् सद्भावस्य, करुणायाः तथा भ्रातृत्वस्य मार्गे चलितुं प्रेरयिष्यति।
डॉ. सरमणा उक्तं यत् महापुरुषः श्रीश्रीमाधवदेवः स्वस्य आध्यात्मिकसाधनया तथा सामाजिकचिन्तनेन असमस्य सांस्कृतिकं धार्मिकं च धरोहरं समृद्धं कृतवान्। तेन जनाः आहूताः यत् ते तस्य महानादर्शान् स्वजीवने स्वीकृत्य सामाजिकसौहार्दस्य, पारस्परिकसम्मानस्य तथा मानवकल्याणस्य मार्गे अग्रे गच्छेयुः।
मुख्यमन्त्री श्रीश्रीमाधवदेवाय श्रद्धाञ्जलिम् अर्पयन् प्रार्थितवान् यत् तस्य आशीर्वादः तथा मार्गदर्शनम् असमराज्यं नूतनस्य, समृद्धस्य, शान्तिपूर्णस्य तथा एकीकृतस्य राज्यस्य निर्माणदिशि निरन्तरं प्रेरयतु।
------------
Hindusthan Samachar / Dheeraj Maithani