Enter your Email Address to subscribe to our newsletters

सहारनपुरम्, 01 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे सहारनपुरजनपदस्य भ्रमणाय आगतः। मुख्यमन्त्रिणा मां शाकुम्भरी देवी मन्दिरे पूजार्चना कृता। ततः अनन्तरं सः अधिकारिभिः सह बाढग्रस्तक्षेत्रे क्षतेः निरीक्षणं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री योगी महोदयः उक्तवान् यत् अन्वेषणे यस्य कस्यचित् अधिकारिणः लापरवाही प्रकाशं प्राप्स्यति तस्य विरुद्धं कठोरकार्यवाही भविष्यति।
उल्लेखनीयम् अस्ति यत् सहारनपुरे गुरुवासरस्य रात्रौ आन्धीतूफान मूसलाधारवृष्टिः ओलावृष्टिः च महान् विनाशं कृतवती। पर्वतीयक्षेत्रेषु जातायाः तीव्रवृष्टेः अनन्तरं मां शाकुम्भरी समीपे नदीमध्ये आकस्मिकरूपेण तीव्रप्रवाहः उत्पन्नः। तस्य प्रभावेण दश द्वादश वाहनानि वहितानि। द्वे महिला श्रद्धालु अपि मृत्युम् उपगते।
अस्य दुर्घटनायाः अनन्तरं सुरक्षाकारणात् मां शाकुम्भरी देवी मन्दिरस्य कपाटानि अद्यापि पिहितानि सन्ति येन श्रद्धालवः दर्शनं कर्तुं न शक्नुवन्ति। नगरविधायकः राजीव गुंबर महोदयः उक्तवान् यत् मुख्यमन्त्रिणा सभायां शाकुम्भरीक्षेत्रे आगतां आपदं दैवीयआपदा इति उक्त्वा अधिकारिभ्यः स्पष्टनिर्देशाः दत्ताः यत् मन्दिरपर्यन्तं गमनमार्गः अन्यानि निर्माणकार्याणि च शीघ्रतया सम्पन्नानि क्रियन्ताम्। मुख्यमन्त्रिणा विविधविकासपरियोजनानां प्रगतिविषये अपि अधिकारिभ्यः उत्तरं पृष्टं तथा कार्येषु शीघ्रता आनयितुं निर्देशाः दत्ताः।
सभायां एकः महत्त्वपूर्णः विषयः सः सेतुपरियोजना अपि आसीत् या बडा देव इत्यस्मात् मां शाकुम्भरी देवी मन्दिरपर्यन्तं निर्मीयते। प्राप्तसूचनानुसारं मन्दिरप्रबन्धनेन स्थगनादेशः प्राप्तः यस्य कारणेन परियोजना अवरुद्धा अस्ति। मुख्यमन्त्रिणा अधिकारिणः जनप्रतिनिधयः च निर्देशिताः यत् ते मन्दिरप्रबन्धनेन सह संवादं कृत्वा समाधानं निष्पादयन्तु येन विकासकार्याणि बाधितानि न भवेयुः।
अन्यतः एडीजी मेरठ जोन भानु भास्करः उक्तवान् यत् आपदारात्रौ अधिकारिणः प्रातः त्रिवादनात् एव घटनास्थले उपस्थिताः आसन् तथा मौसमविषये पूर्वमेव सावधानतासूचना प्रसारिता आसीत्। तस्य अनुसारेण ये जनाः प्रशासनस्य चेतावनीम् अनुपालितवन्तः ते एव दुर्घटनायाः प्रभावे आगताः।
Hindusthan Samachar / Dheeraj Maithani