प्रश्नपत्रसार्वजनीकरणेन ध्वस्ता जायते शिक्षा व्यवस्था, यूनां भविष्यं संकटे : पवन खेड़ा
नव दिल्ली, 01 जूनमासः (हि.स.)। काङ्ग्रेसदलेन केन्द्रीयसर्वकारस्य उपरि शिक्षाव्यवस्थां ध्वंसयितुम् आरोपः कृतः। दलस्य कथनम् अस्ति यत् देशे निरन्तरं विविधासु प्रतियोगीपरीक्षासु प्रश्नपत्रसार्वजनीकरणघटनाः प्रकाशं प्राप्नुवन्ति, येन लक्षाधिकानां युवान
कांग्रेस मीडिया विभाग एक अध्यक्ष पवन खेड़ा कांग्रेस मुख्यालय में पत्रकार वार्ता को संबोधित करते हुए


नव दिल्ली, 01 जूनमासः (हि.स.)।

काङ्ग्रेसदलेन केन्द्रीयसर्वकारस्य उपरि शिक्षाव्यवस्थां ध्वंसयितुम् आरोपः कृतः। दलस्य कथनम् अस्ति यत् देशे निरन्तरं विविधासु प्रतियोगीपरीक्षासु प्रश्नपत्रसार्वजनीकरणघटनाः प्रकाशं प्राप्नुवन्ति, येन लक्षाधिकानां युवानां भविष्यं प्रभावितं भवति तथा च बहवः छात्राः मानसिकभारेण आत्महत्यायाः सदृशानि गम्भीरपदानि ग्रहीतुं विवशाः भवन्ति।

दलस्य सामाजिकमाध्यमविभागस्य अध्यक्षः पवनखेड़ा सोमवासरे अत्र काङ्ग्रेसमुख्यालये पत्रकारवार्तायां उक्तवान् यत् देशे निरन्तरं प्रश्नपत्रलीकघटनाः भवन्ति तथा च अनेकासु परीक्षासु अनियमितताभिः युवानां भविष्यं प्रभावितं जातम्। तेन एनईईटी, सीयूईटी, जेईई मेन तथा बीपीएससी इत्येतासां परीक्षाणाम् उल्लेखं कृत्वा उक्तं यत् लक्षाधिकाः छात्राः प्रभाविताः अभवन्।

पवनखेड़ेन आरोपः कृतः यत् सीबीएसई परीक्षामूल्याङ्कन तथा स्कैनिंगप्रणाल्याः परिवर्तनसमये निविदाप्रक्रियायां नियमेषु संशोधनं कृतम्, येन विशेषायाः कम्पन्याः लाभः अभवत्। तेन दावा कृतः यत् पूर्वतननिविदायां टीसीएस इत्यादयः बृहद्कम्पन्यः सम्मिलिताः आसन्, किन्तु पश्चात् शर्तेषु परिवर्तनं कृत्वा नवीननिविदायां भिन्नकम्पन्यै अवसरः दत्तः।

खेड़ेन उक्तं यत् उत्तरपुस्तिकानां मूल्याङ्कन तथा स्कैनिंगप्रक्रियायां परिवर्तनकारणात् पारदर्शितायाः विषये प्रश्नाः उद्भवन्ति। पुनर्मूल्याङ्कनार्थं छात्रेभ्यः शुल्कं गृह्यते, येन अभिभावकेषु आर्थिकभारः वर्धते।

तेन उक्तं यत् शिक्षायां सरकारीयव्यये न्यूनता आगता अस्ति तथा च एतत् युवानां भविष्यस्य विषये संकटं जनयति। यत्र देशस्य युवानः परीक्षा तथा रोजगारसम्बद्धसमस्याभिः संघर्षं कुर्वन्ति, तत्र सार्वजनिकसन्देशेषु अन्यविषयेषु चर्चा क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani