Enter your Email Address to subscribe to our newsletters

कानपुरनगरम्, १ जूनमासः (हि.स.)। सेनायाः तथा विधि-प्रवर्तन-संस्थानानां कार्यक्षमता सुरक्षां च तेषां कर्मचारिभ्यः व्यावहारिक-सैबर्-सुरक्षा-कौशल-प्रदानेन सुदृढा भविष्यति। वर्धमानानां साइबर-विभीषिकाणां राष्ट्रिय-सुरक्षा-समस्यानां च परिप्रेक्ष्ये जागरूकतायाः प्रशिक्षणस्य च महती आवश्यकता वर्तते। शैक्षणिक-संस्थाभिः, उद्योगैः तथा सशस्त्र-सेनाभिः सह सहयोगेन साइबर-सुरक्षित-भारतस्य लक्ष्यं सुदृढं भविष्यति। भविष्ये अस्य अभियानस्य माध्यमेन सहस्राधिकाः सुरक्षाकर्मचारिणः प्रशिक्षिताः भविष्यन्ति इति योजना अस्ति। एतत् प्रो.सोमित्र-सनध्येन उक्तम्।
भारतीय-प्रौद्योगिकी-संस्थाने (आईआईटी) कानपुरे स्थितेन साइबर-सुरक्षा-प्रौद्योगिकी-नवान्वेषण-केन्द्रेण (सी३आईहब्) रियलमी-इण्डिया-संस्थायाः सहयोगेन “साइबर-सुरक्षा-अभियानस्य” प्रथमं चरणं प्रारब्धम्। अस्य अन्तर्गतं सी३आईहब-परिसरे द्विदिवसीया साइबर-सुरक्षा-साइबर-रक्षा-कार्यशाला आयोजिता। अस्मिन् कार्यक्रमे कानपुर-ब्रिगेड् तथा कानपुर-केण्टोन्मेण्ट्-स्थानकाभ्यां प्राप्ताः ४७ अधिकारिणः, कनिष्ठ-नियुक्त-अधिकारिणः (जे.सी.ओ.) तथा भारतीय-सेनायाः सैनिका: सहभागिनः अभवन्।
कार्यशालायाः मुख्योद्देश्यं सैन्यकर्मचारिणां मध्ये साइबर-जागरूकतां, साइबर-सुरक्षां तथा डिजिटल-सुरक्षा-क्षमताः वर्धयितुम् आसीत्। प्रशिक्षणावधौ प्रतिभागिनः साइबर-विभीषिकाणां परिचयं प्राप्तवन्तः, ताभ्यः रक्षणोपायान् अधीतवन्तः तथा साइबर-घटनानां प्रभावी-प्रतिक्रियाविधीन् अपि ज्ञातवन्तः। कार्यक्रमे प्रत्यक्ष-प्रदर्शनानि, संवादात्मक-सत्राणि तथा आधुनिक-सैबर्-सुरक्षा-तन्त्रज्ञानस्य प्रशिक्षणम् अपि समाविष्टम् आसीत्।
कार्यशालायां साइबर-स्वच्छता, डिजिटल-सङ्कटानां परिचयः, साइबर-अपराधस्य नवीनाः प्रवृत्तयः, सुरक्षित-डिजिटल-उपयोगः, साइबर-घटना-प्रबन्धनम् तथा उदयोन्मुख-साइबर-सङ्कटानि इत्यादिषु विषयेषु विस्तृत-चर्चा कृता। आयोजकैः उक्तं यत् एषः कार्यक्रमः रक्षासेनानां, विधि-प्रवर्तन-संस्थानानां तथा सर्वकारीय-विभागानां कर्मचारिणां कृते अत्यन्तम् उपयोगी भविष्यति।
समापन-समारोहे सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्रदत्तानि। अस्मिन् अवसरे कर्नल बिनय-राजः, सीईओ-सी३आईहब, डॉ.तनिमा-हज्रा मुख्य-सुरक्षा-अधिकारिणी, डॉ.आनन्द-हण्डा मुख्य-तान्त्रिक-अधिकारी, डॉ.रास: उप-कार्यक्रम-प्रबन्धकः, डॉ.पल्लवी, आदित्य-सिंह-गौरः, राहुल-शुक्लः तथा अन्ये अधिकारिणः अपि उपस्थिताः आसन्। सर्वे प्रतिभागिनः अभिनन्दिताः, निरन्तर-सैबर्-सुरक्षा-प्रशिक्षणस्य आवश्यकतायाः विषये च जागरूकाः कृताः।
सी३आईहब-इत्यनेन उक्तं यत् एषः उपक्रमः आईआईटी-कानपुरस्य शोध-क्षमतायाः, भारतस्य औद्योगिक-सहयोगस्य तथा भारतीय-रक्षा-सेनानां अनुभवस्य च संयुक्तः प्रयासः अस्ति। उत्तरप्रदेशे विधि-प्रवर्तन-संस्थानानां सर्वकारीय-विभागानां च सहस्राधिकान् कर्मचारिणः प्रशिक्षयितुं प्रारब्धम् एतदभियानं मूलस्तरे साइबर-जागरूकतां व्यावहारिक-साइबर-सुरक्षा-कौशलं च प्रोत्साहयित्वा देशस्य राष्ट्रिय-सुरक्षां सुदृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति।
हिन्दुस्थान समाचार / Divya Ranjan