Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 जूनमासः (हि.स.)।दिल्लीसर्वकारेण कृषकेभ्यः महद्रक्षणं प्रदाय सस्यक्षतौ प्रदेयानां अनुग्रहसहायराशीनां वृद्धेः निर्णयः कृतः। मुख्यमन्त्री रेखागुप्तायाः अनुसारम् अगस्तसितम्बर २०२५ कालखण्डे अतिवृष्ट्या कृषिक्षेत्रेषु जलभरावेन च प्रभावितेभ्यः कृषकेभ्यः पञ्चसप्ततिसहस्ररूप्यकाणि प्रति हेक्टेयरदरया अनुग्रहसहायता प्रदातुं अनुमतिः प्रदत्ता।
मुख्यमन्त्रिकार्यालयस्य अनुसारम् अयं निर्णयः सोमवासरे मन्त्रिमण्डलस्य सभायां गृहीतः। मुख्यमन्त्री अवदत् यत् शासनस्य अस्मात् निर्णयात् राजधानीप्रदेशस्य प्रायः दशसहस्र कृषकाः प्रत्यक्षलाभं प्राप्स्यन्ति येषां कृषिफलानि गतवर्षे निरन्तरवृष्ट्या प्राकृतिकनालानां प्रवाहवृद्ध्या च कृषिक्षेत्रेषु जातेन जलभरावेण गम्भीरतया प्रभावितानि अभवन्। तया सूचितं यत् दिल्लीनगरे कुलतः १०९७७ दशमलव ४४ एकड क्षेत्रं प्रायः ४४४२ दशमलव ४१ हेक्टेयरपरिमितं कृषिक्षेत्रं प्रभावितम् आसीत्।
मुख्यमन्त्रिणोऽनुसारम् वर्षे २०१५ तमे संवत्सरे तत्कालीनसरकारेण वृष्टिजन्यफसलक्षतौ कृषकेभ्यः विंशतिसहस्ररूप्यकाणि प्रति एकडदरया अनुग्रहसहायता प्रदातुं व्यवस्था कृता आसीत्। एषा राशिः प्रायः ४९४२१ रूप्यकाणि प्रति हेक्टेयर भवति।
तया उक्तं यत् भाजपासर्वकारेण दशवर्षाधिककालस्य अवधौ कृषिव्यये जातां वृद्धिं दृष्ट्वा सहाय्यस्य मितिर्वर्धयित्वा पञ्चसप्ततिसहस्ररूप्यकाणि प्रति हेक्टेयर कृतः। अधुना कृषकाः पूर्वात् अपेक्षया विशेषरूपेण अधिकां सहाय्यतां प्राप्स्यन्ति। एषा सहायता तेषां कृषकाणां कृते भविष्यति येषां कृषिफलानि अतिवृष्ट्या ततः उत्पन्नेन कृषिक्षेत्रजलपूरणेन च नष्टानि जातानि। वर्तमाननिर्णयः विशेषतया अगस्तसितम्बर २०२५ कालखण्डे जातायाः अत्यधिकवृष्टेः प्राकृतिकजलनिर्गमतन्त्रस्य प्रभावितत्वस्य च परिस्थितिषु गृहीतः।
मुख्यमन्त्री अवदत् यत् एषा सहायता भूमेः अभिलेखितस्वामिभ्यः प्रदास्यते। कम्पनीस्वामित्वयुक्ता भूमिः ग्रामसभायां निहिता भूमिः तथा पक्कचारदीवारियुक्ताः फार्महाउसस्वरूपाः भूखंडाःअस्याः सहाय्यतायाः क्षेत्रे न भविष्यन्ति।
मुख्यमन्त्री अवदत् यत् राजस्वविभागेन कृतस्य विस्तृतमूल्याङ्कने ज्ञातं यत् अगस्तसितम्बर २०२५ कालखण्डस्य अतिवृष्ट्या कृषिक्षेत्रजलपूरणेन च प्रभावितेषु प्रदेशेषु कृषिफलानां व्यापकहानिः अभवत् तथा च फसलक्षतेः मूल्याङ्कनं शतप्रतिशतं कृतम्। एतस्य परिप्रेक्ष्ये मन्त्रिमण्डलेन प्रभावितकृषकेभ्यः पूर्णप्रतिशता पञ्चसप्ततिसहस्ररूप्यकाणि प्रति हेक्टेयर अनुग्रहसहायता प्रदातुं निर्णयः कृतः। तया सूचितं यत् पूर्वव्यवस्थानुसारं सप्ततिप्रतिशतपर्यन्तं फसलक्षतौ तदेवानुपातेन तथा सप्ततिप्रतिशताधिकक्षतौ पूर्णसहायता प्रदातुं प्रावधानम् आसीत्।
रेखागुप्ता अवदत् यत् दिल्लीसर्वकारः कृषकाणां परिश्रमं तेषाम् आजीविकां कृषिसुरक्षां च सर्वोच्चप्राथमिकतां ददाति। प्राकृतिकआपदासु अत्यधिकवृष्टौ अथवा अन्यासु प्रतिकूलपरिस्थितिषु यदा कृषकाणां कृषिफलानि प्रभावितानि भवन्ति तदा शासनस्य दायित्वं भवति यत् तत् तेषां सह दृढतया तिष्ठेत् तथा च समये आर्थिकसहायतां प्रदद्यात्।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारः कृषकाणाम् आयवृद्धये कृषिं अधिकलाभकारिणीं कर्तुं संकटसमये कृषकेभ्यः सुरक्षाकवचं प्रदातुं च संकल्पेन कार्यं करोति। तस्यैव चिन्तनस्य प्रतिबद्धतायाश्च अनुसरणं कुर्वन्ती दिल्लीसरकारः फसलक्षतिप्रभावितकृषकेभ्यः राहतं प्रदातुं एतत् महत्त्वपूर्णं निर्णयं कृतवती। तया उक्तं यत् एषा सहायता कृषकेभ्यः आर्थिकबलं प्रदास्यति तथा च तान् आगामिसस्यस्य सिद्धतायै समर्थान् करिष्यति कृषिकार्याणां निरन्तरतां च सुनिश्चितं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani