Enter your Email Address to subscribe to our newsletters

बरेली, 01 जूनमासः (हि.स.) ।शिक्षाक्षेत्रे समाजसेवाक्षेत्रे च उल्लेखनीयं योगदानं दत्तवन्तं डॉ नरेंद्र प्रताप गंगवाराय डॉक्टरेट मानद उपाधिः प्राप्ता इति कारणेन जय शिवाजी जय सरदार पटेल फाउंडेशनसमितेः पदाधिकारीणः तस्य निवासं गत्वा सम्मानितवन्तः। अस्मिन् अवसरे ट्रस्टस्य पदाधिकारीणः तस्मै अभिनन्दनं कृत्वा उज्ज्वलभविष्यस्य शुभकामनाः अपि अददुः।
सूर्या एन्क्लेव इत्यत्र स्थिते निवासे आयोजिते सम्मानसमारोहे समितेःअध्यक्षः डॉ राजेंद्र गंगवार तथा सचिवः हरीश यदुवंशी इत्येतयोः नेतृत्वे पदाधिकारीणः सदस्याश्च डॉ गंगवार महोदयस्य माल्यार्पणेन अभिनन्दनं कृतवन्तः। वक्तारः उक्तवन्तः यत् शिक्षाक्षेत्रे तेन कृताः नवाचाराः सामाजिकदायित्वेषु च तस्य समर्पणभावः युवापीढ्याः प्रेरणास्रोतः अस्ति।
डॉ नरेंद्र प्रताप गंगवारो वर्तमानकाले विकासखण्ड विथरी चैनपुर इत्यस्य मॉडल इंग्लिश मीडियम प्राथमिक विद्यालये डडिया इत्यत्र सहायकाध्यापकपदे कार्यरतः अस्ति। अस्मात् पूर्वं सः विकासखण्ड भदपुरा इत्यत्र एआरपी एकेडमिक रिसोर्स पर्सन इति रूपेण अपि सेवां दत्तवान्। तदतिरिक्तं सः टीएससीटी संस्थायाः प्रान्तीयमाध्यमप्रभारी तथा एनएससीटी संस्थायाः सहसंस्थापकः इति रूपेण अपि सक्रियभूमिकां निर्वहति।
वक्तारः उक्तवन्तः यत् गतैकादशवर्षेभ्यः बेसिक शिक्षा विभागे कार्यरतः डॉ गंगवार महोदयः नवाचारी शिक्षणपद्धतीनां माध्यमेन विद्यार्थिनां सर्वाङ्गीणविकासाय निरन्तरं प्रयासं करोति। शिक्षायाः सह सामाजिककार्येषु अपि तस्य सक्रियसहभागितां दृष्ट्वा तस्मै एषः सम्मानः प्रदत्तः।
अस्मिन् अवसरे महेंद्र पाल गंगवारः उमाकांत परशुराम विवेक पटेल सुमित पटेल निर्वेश पटेल सुमित गंगवार राज बहादुर वर्मा डॉ भारत गंगवार उमेश गंगवार भास्कर गोस्वामी तथा पार्षद बबलू पटेल सहिताः अनेकाः गणमान्यजनाः उपस्थिताः आसन्। सर्वे अपि डॉ गंगवाराय शुभकामनाः दत्त्वा शिक्षाक्षेत्रे समाजसेवाक्षेत्रे च तस्य निरन्तरयोगदानस्य प्रशंसां कृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani