Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य किसान-मोर्चा-राजस्थानस्य महत्त्वपूर्णा संगठनात्मक-सभा सोमवासरे प्रान्तीय-मुख्यालये मोर्चा-प्रदेशाध्यक्षस्य पूर्व-केन्द्रीय-कृषि-राज्यमन्त्रिणः कैलाश-चौधरी-महाभागस्य अध्यक्षतायां सम्पन्ना। सभायां राजस्थाने प्राकृतिक-कृषेः प्रोत्साहनार्थं कृषकाणां च आत्मनिर्भरता-सिद्ध्यर्थं व्यापक-कार्ययोजनायाः विषये विचार-विमर्शः कृतः।
सभायाम् अग्रिमे १२ जून-मासे जयपुरस्थिते सवाई-मानसिंह-क्रीडाङ्गणे आयोज्यमानस्य एकदिवसीय-राज्यस्तरीय-कृषक-प्रशिक्षण-कार्यक्रमस्य रूपरेखा निर्धारिता। अस्य प्रशिक्षण-कार्यक्रमस्य उद्देश्यं कृषकान् रासायनिक-कृषेः परित्यागाय प्रेरयितुं तथा प्राकृतिक-कृषेः अवलम्बनार्थं प्रशिक्षयितुं च अस्ति।
कैलाश-चौधरी अवदत् यत् अस्मिन् कार्यक्रमे गुजरात-राज्यस्य राज्यपालः आचार्य-देवव्रतः तस्य विशेषज्ञ-दलेन सह कृषकेभ्यः जीवामृत-निर्माणम्, भूमेः उर्वरता-वर्धनम् तथा न्यून-व्ययेन अधिक-उत्पादनस्य तकनीक-विषये प्रशिक्षणं दास्यति।
तेन उक्तं यत् अस्मिन् कार्यक्रमे हरिभाऊ-बागडे-महाभागः, भाजपा-किसान-मोर्चायाः राष्ट्रीयाध्यक्षः राजकुमार-चाहरः, राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा तथा भाजपा-प्रदेशाध्यक्षः मदन-राठौडः अपि सहभागित्वं कर्तुं सम्भाव्यन्ते।
सः सूचितवान् यत् कार्यक्रमार्थं त्रिस्तरीय-चयन-प्रक्रियायाः अन्तर्गतं प्रत्येकं मण्डलात् पञ्च-पञ्च इच्छुक-कृषकाः चयनिताः भविष्यन्ति। प्रत्येकं जनपदात् १५० कृषकाणां सूची निर्माय प्रदेश-कार्यालयं प्रति प्रेषिता भविष्यति। एते कृषकाः १२ जून-दिनाङ्के जयपुरे विशेष-प्रशिक्षणं प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan