Enter your Email Address to subscribe to our newsletters


गुरुग्रामनगरम्, १ जूनमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह-सैनी उक्तवान् यत् एआई-प्रौद्योगिकी-मञ्चः (कृत्रिम-बुद्धिमत्ता-प्रौद्योगिकी-मञ्चः) शासनस्य, विकासस्य तथा नवान्वेषणस्य यात्रायां मील-पाषाणवत् सिद्धः भविष्यति। एआई-सैण्डबॉक्स-माध्यमेन अन्त्योदयस्य दिशि हरियाणा-प्रदेशः अधिक-तीव्रतया अग्रे गमिष्यति। सः सोमवासरे गुरुग्राम-नगरस्य ताज-होटल-सभागारे आयोजिते एआई-सैण्डबॉक्स-लोकार्पण-समारोहे उपस्थितान् यूनः सम्बोधयन् एतद् अवदत्।
मुख्यमन्त्री उक्तवान् यत् एआई-सुशासनम्, एआई-अन्त्योदयः तथा एआई-हरियाणा इत्यस्य अस्याः यात्रायाः सर्वे मिलित्वा सहभागिनः भूत्वा आधुनिक-स्वरूपयुक्तस्य विकसित-भारतस्य स्वप्नं साकारं कुर्वन्तु। तेन उक्तं यत् हरियाणा-एआई-सैण्डबॉक्स-इत्यस्य निर्माणम् अपि एतस्यैव दृष्टेः चिन्तनस्य च आधारः अस्ति। अस्मिन् मञ्चे विविध-विभागाः स्वीयाः वास्तविक-समस्याः समस्याश्च प्रस्तोष्यन्ति, यदा नवान्वेषण-उद्यमिनः, शोधकर्तारः, प्रौद्योगिकी-विशेषज्ञाः तथा तकनीकी-निर्माण्य: तासां समाधानानि प्रस्तोष्यन्ति।
नायबसिंह-सैनी अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः ‘विकसित-भारत-२०४७’ इति संकल्पस्य साकारीकरण-यात्रायां हरियाणा एकं सशक्तम् अथकं च विकास-इञ्जिनरूपेण स्वकीयां भूमिकां निर्वोढुं पूर्णतया प्रतिबद्धः अस्ति। सः उक्तवान् यत् सर्वकारस्य कृते किमपि आवेदनपत्रं केवलं सञ्चिका अथवा प्रक्रिया न भवति, अपितु तस्य पृष्ठतः कस्यचित् परिवारस्य आशाः, अपेक्षाः तथा उत्तम-भविष्यस्य स्वप्नं सम्बद्धं भवति। अतः राज्य-सर्वकारस्य निरन्तरः प्रयासः अस्ति यत् शासन-व्यवस्था अधिका संवेदनशीला, जनाभिमुखी, पारदर्शिनी तथा उत्तरदायिनी भवेत्।
मुख्यमन्त्री उक्तवान् यत् अद्य सम्पूर्णे विश्वे कृत्रिम-बुद्धिमत्ता (आर्टिफिशियल-इण्टेलिजेन्स्) चर्चायाः प्रमुखः विषयः अस्ति, किन्तु हरियाणा-राज्यस्य कृते एषा केवलं प्रचलिता संज्ञा अथवा आधुनिक-प्रौद्योगिकी-अवधारणा नास्ति। राज्य-सर्वकारस्य कृते कृत्रिम-बुद्धिमत्तायाः अर्थः ‘अन्त्योदयाय कृत्रिम-बुद्धिमत्ता’ इति अस्ति।
सः अवदत् यत् एआई-प्रौद्योगिक्याः प्रमुखम् उद्देश्यं सामान्य-नागरिकाणां जीवनं सरलम् सुविधाजनकं च कर्तुम् अस्ति। तेन उदाहरणरूपेण उक्तं यत् ‘म्हारी-सड़क’ अनुप्रयोगस्य माध्यमेन यदि छायाचित्रस्य स्थान-सूचनायाश्च आधारेण क्षतिग्रस्त-मार्गाणां परिचयः भवेत्, तर्हि तेषां मर्मत-कार्यं शीघ्रतया कर्तुं शक्यते।
शिक्षा-क्षेत्रे अपि कृत्रिम-बुद्धिमत्तायाः माध्यमेन शिक्षकाणां आवश्यकता, न्यूनता तथा उत्तम-नियोजनस्य योजना निर्मातुं शक्यते, येन विद्यार्थिनः प्रत्यक्षं लाभं प्राप्स्यन्ति।
अस्मिन् अवसरे मन्त्री राव-नरबीर-सिंहः, मुख्यमन्त्रिणः ओएसडी डॉ.राज-नेहरू, मुख्यमन्त्रिणः प्रधान-सचिवः अरुण-कुमार-गुप्तः, आयुक्तः सचिवश्च, हार्ट्रॉन-संस्थायाः प्रबन्ध-निदेशकः डॉ.जे.गणेशनः तथा अन्ये गणमान्य-व्यक्तयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan