योगः भारतस्य सांस्कृतिक-परम्परा अस्ति, तं दैनिक-जीवनस्य भागं कुर्वन्तु : मुख्यमन्त्री नायब-सैनी
गुरुग्रामनगरम्, १ जूनमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह: सैनी अंताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्य उपलक्ष्ये राज्यव्यापिनः योग-अभ्यास-अभियानस्य शुभारम्भं कृतवान्। सः सोमवासरे सेक्टर-२९ स्थिते महाराणा-प्रताप-स्वर्ण-जयंती-प्रांगणे (
गुरुग्राम में योग करते मुख्यमंत्री नायब सिंह सैनी।


गुरुग्रामनगरम्, १ जूनमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह: सैनी अंताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्य उपलक्ष्ये राज्यव्यापिनः योग-अभ्यास-अभियानस्य शुभारम्भं कृतवान्।

सः सोमवासरे सेक्टर-२९ स्थिते महाराणा-प्रताप-स्वर्ण-जयंती-प्रांगणे (लेजर-वैली) योगाभ्यास-कार्यक्रमस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् योगः केवलं अभ्यासः न, अपितु भारतस्य महती सांस्कृतिक-परम्परा उत्सवः वा अस्ति, यः सहस्रवर्षेभ्यः मानवतां संतुलितं, स्वस्थं तथा आध्यात्मिक-जीवनमार्गं प्रति नीतवान्।

सः अवदत् यत् प्रधानमंत्रिण: नरेंद्रमोदिन: नेतृत्वे भारतेन योगः विश्वपटलं प्रति स्थापितः, अद्य च सम्पूर्णं विश्वं तं स्वीकुर्वति। योगः अस्माकं ऋषि-मुनिनां अमूल्य: धरोहरः अस्ति, यस्य वैश्विकस्तरे सम्मानं वर्धमानम् अस्ति।

मुख्यमन्त्री उक्तवान् यत् योगः न कस्यचित् धर्मस्य वा सम्प्रदायस्य विषयः, अपितु मानवतायाः वैज्ञानिक-आध्यात्मिक-धरोहरः अस्ति। २०१४ वर्षे संयुक्त-राष्ट्र-महासभायां प्रधानमन्त्रिणा प्रस्तावितं यत् १७७ देशानां समर्थनं प्राप्तम्, तथा २१ जून २०१५ दिनाङ्के प्रथमः अंताराष्ट्रिय-योग-दिवसः आचरितः। ततः परं योगस्य वैश्विक-विस्तारः निरन्तरं वर्धमानः अस्ति।

सः उक्तवान्— “क्रीडिष्यति भारतं तदा विकसितं भारतं भविष्यति” तथा “योगस्य अभ्यास: अर्धहोरा प्रतिदिनम्” इति संदेशाः अद्यतन-समयस्य आवश्यकताः सन्ति। योगं दैनिक-जीवनस्य भागं कृत्वा वयं स्वस्थं, ऊर्जस्वलं तथा सकारात्मकं जीवनं जीवामः।

मुख्यमन्त्री अवदत् यत् हरियाणा-सर्वकारेण एष: वर्षस्य १२तमः अंताराष्ट्रिय-योग-दिवसः भव्य-स्तरे आचरणीयः इति निर्णयः कृतः। १ जूनतः २१ जूनपर्यन्तं समस्त-प्रदेशे जनपद-उपमण्डल-ब्लॉक-वार्ड-ग्राम-पञ्चायत-स्तरे योग-शिविराणि आयोजितानि भविष्यन्ति। राज्य-स्तरीयः मुख्य-कार्यक्रमः २१ जून दिनाङ्के पंचकूलायां भविष्यति।

सः अवदत् यत् अस्य वर्षस्य विषय: “स्वस्थ-वृद्धावस्थायै योगः” अस्ति, यः आधुनिक-समाजस्य महत्त्वपूर्णा आवश्यकता। आधुनिक-जीवनशैली सुविधाः दत्तवती, किन्तु तया सह तनावः, अनिद्रा, अनियमित-आहारः तथा मानसिक-अशान्तिः अपि वर्धिताः। एतादृशे काले योगः शरीरं निरोगं, मनः स्थिरं तथा जीवनं संतुलितं करोति।

मुख्यमन्त्री उक्तवान् यत् राज्यस्य विषय: “योगयुक्त-नशामुक्त-हरियाणा” अस्ति। युवानः योगेन स्वस्थ-जीवनशैलीं स्वीकुर्वन्तु तथा नशाभ्यः दूरं तिष्ठन्तु इति सः आह्वानं कृतवान्। सः नागरिकान् अपि आह्वानं कृतवान् यत् ते २१ जूनपर्यन्तं आयोजितेषु योग-कार्यक्रमेषु सक्रियतया भागं गृह्णीयुः।

अस्मिन् अवसरे हरियाणा-योग-आयोगस्य अध्यक्षः डॉ.जयदीप-आर्यः योगक्रियाणां लाभान् व्याख्याय सहस्रशः योगसाधकैः सह सामूहिक-योगाभ्यासं कारितवान्।

कार्यक्रमे उद्योग-एवं-वाणिज्य-मन्त्री रावनरबीरसिंह:, पटौदी-विधायिका बिमला चौधरी, गुरुग्राम-विधायकः मुकेश: शर्मा तथा नलवा-विधायकः रणबीरपनिहारः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan