Enter your Email Address to subscribe to our newsletters

- रक्षा मंत्री राजनाथः ऑस्ट्रेलियायाः उपप्रधानमंत्री रक्षामंत्रिणा सह वार्ता कृता
नव दिल्ली, 01 जूनमासः (हि.स.)।रक्षामन्त्री राजनाथ सिंह सोमवासरे नवदिल्ल्यां स्वस्य समकक्षेण तथा ऑस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा रिचर्ड मार्लेस इत्यनेन सह भारत-ऑस्ट्रेलिया रक्षा-मन्त्रिसंवादस्य सहाध्यक्षतां कृतवान्। अस्मिन् संवादे द्विपक्षीयरक्षासहयोगे सम्पन्नायाः प्रगतेः मूल्याङ्कनं कृत्वा परस्परसहयोगस्य नूतनमार्गाणां अन्वेषणविषये चर्चा कृता। भारत-ऑस्ट्रेलियारक्षासहकारिता आगामिवर्षेषु निरन्तरप्रगतये पूर्णतया सज्जा अस्ति।
ऑस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा तथा रक्षामन्त्रिणा रिचर्ड मार्लेस इत्यनेन सह द्विपक्षीयवार्तालापं कुर्वन् रक्षामन्त्री राजनाथ सिंह उक्तवान् यद् “अहं भवतः शासनं हालमेव प्रकाशितायै २०२६ तमवर्षस्य ‘राष्ट्रीयरक्षारणनीतये’ तथा ‘एकीकृतनिवेशकार्यक्रमाय’ अभिनन्दितुम् इच्छामि। अद्यतनचर्चायां अहं अस्य नीतिप्रपत्रस्य विषये तथा भारत-ऑस्ट्रेलियारक्षासम्बन्धानां विकाससंभावनानां विषये भवतः विचारान् ज्ञातुम् उत्सुकः अस्मि।” तेन उक्तं यत् वयं संयुक्तरूपेण द्विपक्षीयरक्षासहयोगस्य सम्पूर्णपरिधेः समीक्षा कृतवन्तः तथा तत् अधिकं विस्तारितुं उपायानां साधनानां च विषये चर्चा कृता।
राजनाथ सिंह द्वितीयभारत-ऑस्ट्रेलियारक्षामन्त्रिसंवादात् पूर्वं नवींदिल्ल्यां आगतस्य ऑस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणः तथा रक्षामन्त्रिणः मार्लेस इत्यस्य स्वागतं कृतवान्। अनन्तरं रक्षामन्त्री राजनाथ सिंहस्य उपस्थितौ रिचर्ड मार्लेस इत्यस्मै त्रिषु सेनासु पक्षतः ‘गार्ड् ऑफ ऑनर्’ प्रदत्तम्। नूतन-चीफ् ऑफ् डिफेन्स् स्टाफ् (सीडीएस) जनरल् एनएस राजा सुब्रमणि तथा नौसेनाप्रमुखः एडमिरल् कृष्णा स्वामीनाथन् इत्येतयोः उपस्थितौ ‘डिफेन्स् मिनिस्टर्स् डायलॉग्’ इत्यस्मिन् रक्षासहयोगस्य समीक्षा कृता तथा भारत-ऑस्ट्रेलियाव्यापक-रणनीतिकसहकारिताम् अधिकां सुदृढीकर्तुं नूतनावसराणां अन्वेषणम् अपि कृतम्।
रिचर्ड मार्लेस इत्यस्य इदंभ्रमणम् अक्टोबर् २०२५ तमे वर्षे ऑस्ट्रेलियादेशे सम्पन्नस्य प्रथमस्य ‘डिफेन्स् मिनिस्टर्स् डायलॉग्’ इत्यस्य अनन्तरं भवति तथा च एषः भारत-ऑस्ट्रेलियाव्यापक-रणनीतिकसाझेदार्यां वर्धमानगतिं प्रदर्शयति। ऑस्ट्रेलिया भारतस्य मुक्तस्य, सर्वसमावेशकस्य तथा समृद्धस्य इण्डो-पैसिफिक्-दृष्टिकोणस्य महत्त्वपूर्णः साझेदारः अस्ति।एतद्भ्रमणं भारत-ऑस्ट्रेलियारक्षासहकारितां वर्धमानसुदृढताम् अपि प्रदर्शयति।।-----------------------------
Hindusthan Samachar / Dheeraj Maithani