Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 जूनमासः (हि.स)।
देशस्य औद्योगिकोत्पादने वृद्धिमितिः अप्रैलमासे विनिर्माणक्षेत्रस्य ६ दशमलव २ प्रतिशतस्य सुदृढवृद्धेः कारणेन वार्षिकाधारेण ४ दशमलव ९ प्रतिशतं वर्धितः अभवत्। एषा वृद्धिः अप्रैल २०२५ तमे वर्षे ५ दशमलव ७ प्रतिशतं आसीत्।
सांख्यिकी तथा कार्यक्रमकार्यान्वयनमन्त्रालयेन सोमवासरे उक्तं यत् आधारवर्षस्य संशोधनं कृत्वा २०२२ २३ इति कृतस्य अनन्तरं आईआईपी इत्यस्य एषः प्रथमः प्रदत्तः अस्ति। आंकडानुसारं अप्रैलमासे चतुर्षु क्षेत्रेषु खनन तथा उत्खनन विनिर्माण विद्युत् तथा गैस आपूर्ति जलापूर्ति दूषितजल तथा अपशिष्टप्रबन्धन इत्येषां वृद्धिदराः क्रमशः ऋणात्मक ५ दशमलव १ प्रतिशतं ६ दशमलव २ प्रतिशतं ४ दशमलव ९ प्रतिशतं तथा ६ दशमलव ६ प्रतिशतं आसन्।
मन्त्रालयेन औद्योगिकोत्पादनसूचकाङ्कस्य आधारवर्षं २०११ १२ इत्यस्मात् परिवर्त्य २०२२ २३ कृतम्। वस्तूनां संशोधितसूच्यां १०४२ उत्पादाः समाविष्टाः सन्ति ये ४६३ मदसमूहेषु वर्गीकृताः सन्ति। तेषु १२० नूतनमदसमूहाः अपि सन्ति।
आधारवर्षस्य एतत् संशोधनम् अखिलभारतीय औद्योगिकोत्पादनसूचकाङ्कस्य तकनीकीसलाहकारसमितेः अधीनं कृतम्। अस्य अन्तर्गतं अप्रैलमासे आईआईपी ११८ दशमलव ९ भविष्यति इति अनुमानं कृतम् यत् अप्रैल २०२५ तमे वर्षे ११३ दशमलव १ आसीत्। आईआईपी इत्यस्य प्रकाशनं प्रत्येकमासं सन्दर्भमासात् अष्टाविंशतिदिनानां अन्तरालेन क्रियते।
नूतना आईआईपी श्रृंखला नवीकरणीय तथा अनवीकरणीय स्रोताभ्यां विद्युतोत्पादनस्य गैसआपूर्तेः ईंधनखनिजानां धात्विक अधात्विकखनिजानां जलापूर्तेः दूषितजलस्य तथा अपशिष्टप्रबन्धनस्य च पृथक् सूचकाङ्कैः सह अधिकविस्तृतां सूचनां प्रददाति। एषः आईआईपी आधारवर्षस्य दशमः संशोधनः अस्ति। प्रथमः आईआईपी १९३७ तमे वर्षे आधारवर्षं स्वीकृत्य निर्मितः आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani