Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 जूनमासः (हि.स.)।
विदेशमन्त्री एस् जयशङ्करः समोआदेशस्य स्वातन्त्र्यदिवसस्य अवसरॆ तत्रत्यसर्वकाराय जनतायै च शुभकामनाः प्रेषितवान्। विदेशमन्त्री एक्समाध्यमे सन्देशं प्रदाय उक्तवान् यत्समोआसर्वकाराय तत्रत्यजनतायै च अद्य तेषां स्वातन्त्र्यदिवसस्य अवसरॆ हार्दिकाः शुभकामनाः।”
जयशङ्करस्य अयं सन्देशः भारतसमोआदेशयोः मध्ये विद्यमानानां मैत्रीपूर्णसम्बन्धानां पारस्परिकसहकार्यस्य च अधिकसुदृढीकरणस्य भावनां प्रदर्शयति।
उल्लेखनीयम् अस्ति यत् समोआदेशः प्रतिवर्षं जूनमासस्य प्रथमदिनाङ्के स्वातन्त्र्यदिवसं आचरति। अयं दिवसः वर्षे १९६२ तमे देशस्य स्वातन्त्र्यप्राप्तेः स्मृत्यर्थम् आचर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani