जेईई एडवांस्ड-2026 इत्यस्य परीक्षायां 56,880 अभ्यर्थिनः सफलाः, कट-ऑफ 18 अंकानां वृद्धिंगतम्, प्रथमेषु त्रिषु दिल्लीक्षेत्रस्य शुभम्, कबीरः जतिनश्च
नवदिल्ली, 01 जूनमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानम् (आईआईटी) रुड़की संस्थानेन अद्य संयुक्तप्रवेशपरीक्षा (जेईई) एड्वान्स्ड्-२०२६ इत्यस्य परिणामः घोषितः। अस्मिन् वर्षे परीक्षायां दिल्ली-जोनस्य शुभम् कुमारः ३६० मध्ये ३३० अङ्कान् प्राप्त्वा प्र
3591daf03f80ee638643d8e173087e83_566816413.jpg


नवदिल्ली, 01 जूनमासः (हि.स.)।

भारतीयप्रौद्योगिकीसंस्थानम् (आईआईटी) रुड़की संस्थानेन अद्य संयुक्तप्रवेशपरीक्षा (जेईई) एड्वान्स्ड्-२०२६ इत्यस्य परिणामः घोषितः। अस्मिन् वर्षे परीक्षायां दिल्ली-जोनस्य शुभम् कुमारः ३६० मध्ये ३३० अङ्कान् प्राप्त्वा प्रथमस्थानम् अधिगतवान्। द्वितीयस्थाने दिल्ली-जोनस्य कबीर छिल्लरः स्थितः, येन ३२९ अङ्काः प्राप्ताः, यदा तु जतिन् चाहरः ३१९ अङ्कैः सह तृतीयस्थानम् अलभत। एवं शीर्षत्रयस्थानेषु दिल्ली-जोनस्य अभ्यर्थिनां प्रभुत्वम् आसीत्।

आईआईटी रुड़की संस्थानेन परिणामः निर्धारितसमयात् पूर्वमेव प्रकाशितः तथा अन्तिमउत्तरकुञ्जिका अपि प्रसारिता। अभ्यर्थिनः स्वीयं परिणामम् आधिकारिकजालपुटे रोलसङ्ख्या, जन्मतिथिः तथा पञ्जीकृतदूरभाषसङ्ख्यायाः साहाय्येन द्रष्टुं शक्नुवन्ति।

अस्मिन् वर्षे जेईई एड्वान्स्ड् परीक्षायै १,८७,३८९ अभ्यर्थिनः पञ्जीकृतवन्तः। तेषु १,७९,६९४ अभ्यर्थिनः परीक्षायाम् उपविष्टाः तथा ५६,८८० अभ्यर्थिनः सफलाः घोषिताः। सफलाः अभ्यर्थिनः अधुना भारतीयप्रौद्योगिकीसंस्थानेषु प्रवेशार्थं संयुक्तआसनविनियोजनप्रक्रियायाः (जोसा) परामर्शप्रक्रियायां भागं ग्रहीष्यन्ति। सफलेषु अभ्यर्थिषु १०,१०७ छात्र्यः अपि सम्मिलिताः सन्ति।

अस्मिन् समये सामान्यवर्गस्य कट्-ऑफ् ९२ अङ्काः निर्धारिताः, यत् गतवर्षस्य अपेक्षया १८ अङ्कैः अधिकम् अस्ति। विषयवारकट्-ऑफ् ८ अङ्काः निर्धारिताः। प्रायः ३१.६५ प्रतिशतं परीक्षार्थिनः सफलाः घोषिताः, यत् गतवर्षेभ्यः उत्तमं प्रदर्शनम् इति मन्यते।

जोनाधारेण अपि अनेकैः विद्यार्थिभिः उत्कृष्टं प्रदर्शनं कृतम्। आईआईटी दिल्ली-जोनतः शुभम् कुमारः प्रथमस्थानम् अलभत। आईआईटी मद्रास-क्षेत्रतः मोहितशेखरशुक्लः चतुर्थस्थाने स्थितः। आईआईटी मुम्बई-जोनस्य बी. जयकृष्ण श्रीनिवासः षष्ठस्थानम् अधिगतवान्। आईआईटी रुड़की-जोनस्य निकुञ्ज अग्रवालः एकादशस्थाने, आईआईटी कानपुर-जोनस्य रिद्धेश अनन्त बेण्डाले अष्टादशस्थाने तथा आईआईटी भुवनेश्वर-जोनस्य भावेश पात्रः एकोनत्रिंशत्स्थाने स्थिताः। आईआईटी गुवाहाटी-जोनस्य यशराज सिंहः १२२तमां श्रेणीम् अलभत।

महिलाअभ्यर्थिषु आईआईटी दिल्ली-जोनस्य आरोही देशपाण्डे सर्वोत्तमा अभवत्। तया ३६० मध्ये २८० अङ्काः प्राप्ताः तथा अखिलभारतीयश्रेणीसूच्यां ७७तमं स्थानम् अधिगतं। उल्लेखनीयम् अस्ति यत् जेईई एड्वान्स्ड् देशस्य २३ भारतीयप्रौद्योगिकीसंस्थानेषु स्नातकपाठ्यक्रमेषु प्रवेशस्य आधारः अस्ति। परिणामघोषणया सह अधुना सफलाभ्यर्थिनां कृते आसनविनियोजनप्रक्रिया तथा प्रवेशप्रक्रिया आरब्धा अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani