श्रीराम कथायाः द्वितीयं दिनम् : राम जन्मोत्सवेन अथ अहिल्या उद्धार प्रकरणेन भावविह्वलाः अभवन् श्रद्धालवः
कोलकाता, 01 जूनमासः (हि. स.)। पूर्वाञ्चलकल्याणाश्रमेण साल्टलेकस्थिते स्टेडलबैंक्वेटभवने आयोजितायाः अष्टदिवसीयश्रीरामकथायाः द्वितीयदिने पूज्याचार्यः मृदुलकान्तशास्त्री श्रीरामजन्मोत्सवस्य अहल्याउद्धारप्रसङ्गस्य च सजीवं चित्रणम् अकरोत्। तेन गृहस्थज
पूर्वांचल कल्याण आश्रम के तत्वावधान में आयोजित श्री राम कथा में शामिल भक्तजन


कोलकाता, 01 जूनमासः (हि. स.)।

पूर्वाञ्चलकल्याणाश्रमेण साल्टलेकस्थिते स्टेडलबैंक्वेटभवने आयोजितायाः अष्टदिवसीयश्रीरामकथायाः द्वितीयदिने पूज्याचार्यः मृदुलकान्तशास्त्री श्रीरामजन्मोत्सवस्य अहल्याउद्धारप्रसङ्गस्य च सजीवं चित्रणम् अकरोत्। तेन गृहस्थजीवने दैनिकपूजनस्य सह पतिपत्न्योः मध्ये धार्मिकचर्चायाः आवश्यकतायां विशेषबलं दत्तम्। तेन उक्तं यत् यदा भक्तः स्वयम् आत्मानम् ईश्वराय समर्पयति तदा प्रभुः तस्य कल्याणं करोति।

कार्यक्रमस्य आरम्भः सुमनटांटिया तथा मध्यहावडामहिलासमित्याः भगिनीभिः सुमधुरभजनैः अभवत्। मंचसञ्चालनं कुर्वन्ती शैलजाबियानी आश्रमस्य दीपकयोजना तथा सेवापात्रयोजनायाः विषये जानकारीं प्रदत्तवती।

अस्मिन् अवसरे वनवासीकल्याणाश्रमस्य राष्ट्रियाधिकारी कृपाप्रसादसिंहः महानगराध्यक्षा स्नेहलताबैद च उपस्थितौ आस्ताम्। विशिष्टसेवाकार्यार्थं शकुन्तलाबागडी तथा सुनीलमस्करा सम्मानितौ।

१०८ यजमानैः सहस्त्रनामार्चनं रामललायाः पावनाभिषेकश्च सम्पन्नः। दैनिकश्रृङ्गारयजमानः सुनीलमस्करा तथा प्रसादयजमानौ राजेशअग्रवालः श्रीमती सरिताभालोटिया च आरार्तिकं कृतवन्तौ।

एषा कथा सप्तजूनदिनाङ्कपर्यन्तं प्रवर्तिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani