Enter your Email Address to subscribe to our newsletters

नवदेहली, १ जूनमासः (हि.स.)। विश्वस्य बृहत्तमे नदी-द्वीपे असम-राज्यस्य माजुली-द्वीपे गत-चतुःसहस्र-वर्षीयः जलवायु-वनस्पति-इतिहासः ज्ञातः अस्ति। अनुसन्धानं कुर्वद्भिः वैज्ञानिकैः उक्तं यत् एतत् अध्ययनं बाढ-जलवायु-परिवर्तनाभ्यां प्रभावित-प्रदेशानां कृते भविष्ये अनुकूलन-रणनीतिनिर्माणे सहायकः भविष्यति।
लखनऊ-नगरे स्थितस्य बीरबल-साहनी-पुराजीवविज्ञान-संस्थानम् (बीएसआईपी) इत्यस्य वैज्ञानिकैः माजुली-द्वीपस्य सकाली-आर्द्रभूमेः (वेटलैण्ड्) १५० सेण्टीमीटर-गम्भीरात् अवसाद-नमूनानि सङ्गृहीत्वा तेषाम् अध्ययनं कृतम्। शोधकर्तृभिः परागकणानां मृत्तिका-कणानां च विश्लेषणस्य माध्यमेन द्वीपस्य पर्यावरणीय-इतिहासस्य पुनर्निर्माणं कृतम्।
अध्ययनानुसारं प्रायः ४०४० वर्षेभ्यः २२६० वर्ष-पूर्वपर्यन्तं माजुली-प्रदेशे उष्णा आर्द्रा च जलवायुः आसीत् तथा तत्र सघन-वृक्षवनानि विद्यमानानि आसन्। ततः परं मानसून-वृष्टेः स्वरूपे अनेकानि परिवर्तनानि अभवन्। ११०० वर्षेभ्यः ५०० वर्ष-पूर्वपर्यन्तं क्षेत्रे अपेक्षया अधिक-आर्द्रतायुक्तः कालः आसीत्, किन्तु गत-पञ्चशत-वर्षेषु तापमाने वर्षायां च ह्रासः अभिलक्षितः।
वैज्ञानिकैः ज्ञातं यत् समीपवर्तीषु शतकेषु मानवीय-क्रियाकलापानां प्रभावः वर्धितः, येन प्राकृतिक-वनस्पतिषु परिवर्तनं दृष्टम्। अध्ययनात् एतदपि स्पष्टं जातम् यत् माजुली-द्वीपेन अतीते बहूनि जलवायु-परिवर्तनानि प्राकृतिक-समस्याश्च सफलतया समालोचिताः।
माजुली-द्वीपः ब्रह्मपुत्रा-नदी तथा सुबनसिरी-नदी इत्यनयो: मध्ये स्थितः अस्ति। अयं प्रदेशः दीर्घकालात् बाढ-नदी-क्षरण-समस्याभ्यां पीडितः अस्ति। अतः एतत् अनुसन्धानं क्षेत्रस्य जलवायोः, जलवर्धनस्य तथा पर्यावरणीय-परिवर्तनानां सम्यग् अवबोधे, भविष्यस्य आपदा-प्रबन्धन-नीतिषु संरक्षण-योजनासु च महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
वैज्ञानिकानां मते एतत् अध्ययनम् ऊर्ध्व-ब्रह्मपुत्रा-घट्टे: जलवायु-इतिहासस्य अवगमने महत्त्वपूर्णा उपलब्धिः अस्ति। अनेन जलवायु-परिवर्तनस्य प्रभावानां निवारणार्थं दीर्घकालिक-योजनानिर्माणे साहाय्यं भविष्यति।
एतत् अनुसन्धानं आर्य-पाण्डेयः तथा डा.स्वाति-त्रिपाठी इत्येतयोः नेतृत्वे सम्पन्नम्। अस्मिन् अध्ययने डा.साधन-कुमार-बसुमतारी, डा.सलमान-खान, डा.हेमा-सिंह:, डा.बिस्वजीत-ठाकुर: तथा डा. अनुपम-शर्मा इत्येतेषामपि योगदानम् आसीत्।
Hindusthan Samachar / Divya Ranjan