Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी:आदित्यनाथ: लोकभवने आयोजिते समारोहे मेधाविनः छात्र-छात्राः सम्बोधयन् उक्तवान् यत् मेरिट-क्रमे छात्राः अपेक्षया छात्राः अधिकाङ्कान् प्राप्तवन्तः, इदं सुखदं सूचनम् अस्ति। सः अवदत्— “यदा पुत्री पठित्वा अग्रे गमिष्यति, तदा देशः समाजश्च अपि अग्रे गमिष्यति।”
मेधाविनः सम्बोधयन् सः उक्तवान् यत् विद्यार्थिनः सोशल-मीडिया-जाले न्यूनतमं समयं योजयन्तु, यतः तत्र बहूनि तथ्यानि भ्रान्तानि भवन्ति। समाचारपत्राणि अवश्यं पठनीयानि, देश-समाज-विषये च सततं ज्ञानं वर्धनीयम्। स्व-परम्परा, संस्कृति:, परम्परा तथा परिवेश-विषये अपि जागरूकता आवश्यकी अस्ति।
योगी आदित्यनाथः अवदत् यत् भारते ज्ञानस्य समृद्धा परम्परा अस्ति— “सा विद्या या विमुक्तये।” या विद्या जीवनस्य मुक्ति-मार्गं प्रशस्तं करोति तथा च चुनौतिभ्यः निवारणाय प्रेरणां ददाति। भारतस्य परम्परा कदापि पलायनमार्गं न अवलम्बत्। रामः तदा एव मर्यादापुरुषोत्तमः अभवत् यदा तस्य जीवनं गुरु-वसिष्ठेन, विश्वामित्रेण तथा वाल्मीकिना प्रभावितम् अभवत्। कृष्णः अपि गुरु-सांदीपनिना शिक्षितः भूत्वा महान् अभवत्।
सः उक्तवान् यत् विश्वे भारतस्य सम्मानं तस्य ज्ञान-सम्पदा-कारणात् अस्ति, अतः भारतं “विश्वगुरुः” इति कथ्यते। पूर्वं प्रदेशे अनूकरणयुक्त-परीक्षा प्रचलिता आसीत्, किन्तु नववर्षेषु सर्वकारेण अनूकरण-विहीन-परीक्षा-प्रणाली स्थापिता। अधुना परीक्षाः समये भवन्ति, परिणामाः अपि समये एव आगच्छन्ति। विद्यालयाः अपि अधिकं सुव्यवस्थिताः जाताः, तथा सर्वेषां विद्यालयानां कृते अनुदान-व्यवस्था सर्वकारेण कृता अस्ति।
योगी आदित्यनाथः उक्तवान् यत् सॉर्टकट-मार्गः न उचितः। परिश्रमस्य फलम् अवश्यं सफलतां ददाति। व्यक्तिगत-सफलतायां समाजस्य राष्ट्रस्य च योगदानम् अस्ति, अतः समाजाय किञ्चित् योगदानं कर्तुं भावना भवितव्या।
अस्मिन् अवसरे माध्यमिक-शिक्षामन्त्री गुलाब-देवी तथा लखनऊ-नगरस्य महापौरः सुषमा-खर्कवालः अपि उपस्थितौ आस्ताम्।
Hindusthan Samachar / Divya Ranjan