पीएम-स्वनिधि-योजनया देशस्य लक्षशः पथ-विक्रेतॄणां स्वप्नेभ्यः नूतना उड्डयन-शक्तिः प्राप्ता : मोहन-यादवः
भोपालनगरम्, १ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः उक्तवान् यत् ‘पीएम-स्वनिधि’ योजनया देशस्य लक्षशः रेहडी-पटरी-विक्रेतॄणां स्वप्नेभ्यः नूतना उड्डयन-शक्तिः प्रदत्ता, सम्मानपूर्वकं जीवनं यापयितुं च अवसरः प्रदत्तः। मुख्यमन्त्री ड
सीएम मोहन यादव


भोपालनगरम्, १ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः उक्तवान् यत् ‘पीएम-स्वनिधि’ योजनया देशस्य लक्षशः रेहडी-पटरी-विक्रेतॄणां स्वप्नेभ्यः नूतना उड्डयन-शक्तिः प्रदत्ता, सम्मानपूर्वकं जीवनं यापयितुं च अवसरः प्रदत्तः।

मुख्यमन्त्री डॉ.मोहन-यादवः सोमवासरे सामाजिक-माध्यमेन रेहडी-पटरी-विक्रेतॄणां सम्मानस्य आधारभूतायाः ‘पीएम-स्वनिधि’ योजनायाः सफल-षड्वर्ष-पूर्णतायाः अवसरे प्रधानमन्त्रिणं नरेन्द्र-मोदिनं प्रति कृतज्ञतां व्यक्तवान्। सः अवदत् यत् अस्याः जनकल्याणकारी-योजनायाः माध्यमेन अधुना यावत् मध्यप्रदेशे नव-लक्षाधिकाः पथ-विक्रेतारः लाभान्विताः सन्ति।

२२तम्याम् एशियाई-अधः-२०-वर्षीय-क्रीडा-प्रतियोगितायां पदक-विजेतृभ्यः अभिनन्दनम्

मुख्यमन्त्री डॉ.मोहन-यादवः २२तम्याम् एशियाई-अधः-२०-वर्षीय-क्रीडा-प्रतियोगितायाम् भारतीय-क्रीडकानां ऐतिहासिक-प्रदर्शनाय हार्दिकम् अभिनन्दनं प्रदत्तवान्। भारतीय-दलेन अस्यां प्रतियोगितायां दश-स्वर्ण-पदकानि सहितानि आहत्य एकोनविंशति (१९) पदकानि प्राप्तानि, येन नूतनं कीर्तिमानं स्थापितम्।

मुख्यमन्त्री अवदत् यत् एषः सम्पूर्णस्य भारतवर्षस्य कृते गौरवपूर्णः क्षणः अस्ति। सः क्रीडकाणां उज्ज्वल-भविष्याय शुभकामनाः प्रदत्त्वा उक्तवान् यत् सर्वे क्रीडकाः स्व-प्रतिभया उत्कृष्ट-प्रदर्शनेन च राष्ट्रस्य प्रदेशस्य च यशः निरन्तरं वर्धयन्तु, इति तस्य हार्दिकी कामना अस्ति।

Hindusthan Samachar / Divya Ranjan