मध्यप्रदेशस्य रायसेन-जनपदात् अद्य राष्ट्रव्यापी ‘खेत-बचाओ-अभियानस्य’ शुभारम्भः भविष्यति
भोपालनगरम्, ०१ जूनमास: (हि.स.)। केन्द्र-सर्वकारस्य प्रयत्नस्य अन्तर्गतं कृषकान् वैज्ञानिकै: स्थायि-कृषि-पद्धतिभिः सह सम्बद्धान् कर्तुं राष्ट्रव्यापी ‘खेत-बचाओ-अभियानस्य’ अद्य शुभारम्भः भवति। एकमासपर्यन्तं सञ्चाल्यमानस्य अस्य अभियानस्य शुभारम्भः मध्
शिवराज सिंह (एक्स पर वीडियो संदेश से ली गई तस्वीर)


भोपालनगरम्, ०१ जूनमास: (हि.स.)। केन्द्र-सर्वकारस्य प्रयत्नस्य अन्तर्गतं कृषकान् वैज्ञानिकै: स्थायि-कृषि-पद्धतिभिः सह सम्बद्धान् कर्तुं राष्ट्रव्यापी ‘खेत-बचाओ-अभियानस्य’ अद्य शुभारम्भः भवति। एकमासपर्यन्तं सञ्चाल्यमानस्य अस्य अभियानस्य शुभारम्भः मध्यप्रदेशस्य रायसेन-जनपदस्य रामसिया-ग्रामात् भविष्यति।

केन्द्रीय-कृषि-किसान-कल्याण-मन्त्री शिवराजसिंह-चौहानस्य प्रयत्नेन प्रारभ्यमाणस्य अस्य अभियानस्य उद्देश्यं कृषकान् मृत्तिकायाः स्वास्थ्य-सुधारणे, उर्वरकाणां सन्तुलित-प्रयोगे, प्राकृतिक-कृषौ, जल-संरक्षणे तथा कूट-खाद-बीजानां परिहारविषये जागरूकान् कर्तुम् अस्ति। अभियानस्य अवधौ कृषि-वैज्ञानिकाः देशस्य ग्रामेषु ग्रामेषु गत्वा कृषकेभ्यः स्थायि-कृषेः उपायान् शिक्षयिष्यन्ति।

क्षेत्रेषु वैज्ञानिक-कृषेः प्रदर्शनं भविष्यति

केन्द्रीय-कृषि-मन्त्री चौहानः उक्तवान् यत् कृषकेभ्यः केवलं परामर्श-प्रदानं पर्याप्तं नास्ति। कृषि-वैज्ञानिकैः अधिकारिभिश्च क्षेत्र-स्तरे प्रदर्शनैः, प्रयोगैः तथा व्यवहारिक-उदाहरणैः कृषकाणां विश्वासः सम्पादनीयः। अभियानस्य अन्तर्गतं वैज्ञानिकाः कृषकेभ्यः मृत्तिका-परीक्षणम्, मृदा-स्वास्थ्य-पत्रम्, हरित-उर्वरकस्य उपयोगः, सस्य-चयनम्, अल्पवृष्टि-स्थितौ वैकल्पिक-कृषिः, प्राकृतिक-कृषि-तकनीक्य: तथा जल-संरक्षणस्य उपायानां विषये विस्तृतां सूचनां प्रदास्यन्ति।

कूट-उर्वरक-बीजानां परिचयः अपि शिक्षयिष्यते

‘खेत-बचाओ-अभियानस्य’ एकं महत्त्वपूर्णम् उद्देश्यं कृषकान् कूट-उर्वरकेभ्यः, कूट-बीजेभ्यः तथा कूट-कीटनाशकेभ्यः रक्षितुम् अपि अस्ति। एतदर्थं ग्रामेषु ग्रामेषु जागरूकता-कार्यक्रमाः आयोजयिष्यन्ते, येन कृषकाः यथार्थ-कृषि-आदानानां परिचयं प्राप्तुं शक्नुयुः तथा आर्थिक-हानिं परिहर्तुं समर्थाः भवेयुः।

योजनानां लाभः अपि प्रदास्यते

अभियानस्य अवधौ कृषकान् विविधाभिः शासकीय-योजनाभिः सह सम्बद्धान् कर्तुं विशेषं बलं प्रदास्यते। कृषक-क्रेडिट-कार्ड-योजना, प्रधानमन्त्री-किसान-सम्मान-निधिः, फसल-बीमा-योजना, मृदा-स्वास्थ्य-पत्रम्, लघु-बीज-किट्-वितरणम्, दलहन-तिलहन-मिशनम् तथा कृषि-यन्त्रीकरण-योजनादीनां विषये सूचना तथा लाभः पात्र-कृषकेभ्यः प्रदास्यते।

केन्द्रीय-कृषि-मन्त्री शिवराजसिंह-चौहानः एक्स माध्यमे प्रसारिते चलच्चित्र-सन्देशे कृषकान् सम्बोध्य उक्तवान् यत् “धरा अस्माकं माता अस्ति। एतानि क्षेत्राणि एव अस्मभ्यम् अन्नं, फलानि, शाकानि तथा जीवनं ददति। किन्तु रासायनिक-उर्वरकाणां तथा कीटनाशकानां असन्तुलित-प्रयोगात् धरित्र्याः उर्वरा-शक्तिः निरन्तरं क्षीयते।”

सः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः आह्वानेन जून-मासस्य १ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं सम्पूर्णे देशे ‘खेत-बचाओ-अभियानम्’ आयोज्यते। अस्य अभियानस्य अन्तर्गतं कृषि-वैज्ञानिकाः, कृषि-विश्वविद्यालयानां विशेषज्ञाः, कृषि-विज्ञान-केन्द्राणि, केन्द्र-राज्य-सर्वकारयोः अधिकारिणः, जनप्रतिनिधयः तथा प्रगतिशील-कृषकाः ग्रामेषु ग्रामेषु गत्वा कृषकेभ्यः सन्तुलित-उर्वरक-प्रयोगः, कूट-कीटनाशकानां परिचयः तथा वैज्ञानिक-कृषेः विषयकं ज्ञानं प्रदास्यन्ति। तेन कृषकाः आहूताः यत् ते अस्मिन् अभियाने सहभागीभूय वैज्ञानिक-परामर्शानुसारं उर्वरकाणां प्रयोगं कुर्वन्तु तथा शनैः शनैः प्राकृतिक-कृषेः दिशि अग्रे सरन्तु।

Hindusthan Samachar / Divya Ranjan