Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ जूनमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल-नगरे वीर-भारत-न्यासेन जल-गङ्गा-संवर्धन-अभियानस्य अन्तर्गतं आयोजिते सप्तदिवसीये सदानीरा-समागमे अद्य (सोमवासरे) सायं सप्तवादने मुख्यमन्त्री डॉ.मोहन-यादवः मुख्यातिथिरूपेण सहभागी भविष्यति। तेन सह मञ्चे साइप्रस-फिजी-मेक्सिको-देशानां दूतावासेभ्यः आगताः अतिथयः अपि उपस्थिताः भविष्यन्ति।
वीर-भारत-न्यासस्य न्यासी-सचिवः श्रीराम-तिवारी अवदत् यत् सदानीरा-समागमस्य सांस्कृतिक-सन्ध्यायाम् अद्य पूर्वरङ्ग-मञ्चे छतरपुरतः आगता अनामिका-पाण्डेय-सहचरैश्च सह बुन्देली-लोकगीतानां प्रस्तुति प्रदास्यति। द्वितीया प्रस्तुतिः अन्तरङ्ग-सभागारे भविष्यति, यत्र दक्षिण-कोरिया-देशस्य मुट-डान्स-कम्पनी इति समूहद्वारा निर्मितस्य ‘क्रिटिकल-पॉइण्ट’ इति नाट्य-प्रदर्शनस्य मञ्चनं भविष्यति।
अस्यैव क्रमस्य अन्तर्गतं बहिरङ्ग-मञ्चे भुवनेश्वर-नगरस्य विचित्रानन्देन निर्देशिता ‘जल-दर्पण’ इति नृत्य-नाटिका अपि प्रस्तूयते।
Hindusthan Samachar / Divya Ranjan