Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 जूनमासः (हि.स.)।संस्कारभारत्याः केन्द्रीयकार्यालये कलासङ्कुले मासिककलासङ्गोष्ठ्याः आयोजनं सांस्कृतिकोल्लासेन सह सम्पन्नम्। अनेन कार्यक्रमेण विश्वस्य प्राचीनपरम्पराः समकालीनपरिप्रेक्ष्ये सजीवाः कृताः तथा च श्रोतृदर्शकेषु गभीरानुभूतेः सृजनं कृतम्।
कार्यक्रमस्य आरम्भः पण्डितपङ्कजविशालस्य सितारवादनेन अभवत् यस्य मधुरधुनयः श्रोतॄन् रागरङ्गस्य अनन्तगाम्भीर्ये निमग्नान् अकुर्वन्। तेन सह सङ्गते उस्तादमुस्तफाहुसैनस्य तबलावादनं लयतालयोः अद्भुतां जगतीं निर्मितवान् यत्र प्रत्येकः बोलः संस्कृतेः स्पन्दनम् अभवत्।
ततः परं कृपातेण्डुलकरस्य कथकनृत्यप्रस्तुतिः दर्शकान् भावभङ्गिमाभिः चरणकौशलेन आध्यात्मिकऊर्जया च अनुपमेन सङ्गमेन परिपूर्णान् अकरोत्। त्रयाणाम् कलाकाराणां प्रस्तुतयः भारतीयशास्त्रीयकलायाः अमरपरम्परां पुनः सजीवं प्रदर्शितवन्तः।
अस्मिन् अवसरे मुख्यातिथिरूपेण वक्तारूपेण च इन्टरनेशनलसेन्टरफरकल्चरल -अध्ययनस्य संगठनमन्त्री सन्दीपकवीश्वरः विश्वस्य प्राचीनपरम्पराः इति विषये स्वविचारान् प्रस्तुतवान्। तेन इन्टरनेशनलसेन्टरफरकल्चरल अध्ययनस्य कार्योद्देश्यं स्पष्टं कृत्वा प्रकृतिपूजायाः विश्वबन्धुत्वस्य प्राचीनपरम्पराणां च महत्त्वं प्रकाशयत्। तेन उक्तं यत् प्राचीनकाले विश्वस्य सर्वेषु भागेषु उत्तमाः परम्पराः विकसिताः आसन् एतत् सकारात्मकं यत् तासु बह्व्यः परम्पराः अद्यापि जीविताः सन्ति।
कलासङ्कुलस्य अस्मिन् आयोजने कलाप्रेमिणः बुद्धिजीविनः छात्राः छात्राश्च संस्कृत्यनुरागिणः सामान्यजनाश्च बहुसंख्यया उपस्थिताः आसन्। तेषु प्रसिद्धा शास्त्रीयगायिका नवनीताचौधरी वरिष्ठरङ्गकर्मी अवतारः आईएनसीसंस्थायाः कलादर्शनविभागस्य विभागाध्यक्षा डॉ ऋचाकम्बोज कवयित्री चित्रकारा गायिका निशिसिंहः दीपसमलंकर्त्री मिलिन्दश्रीवास्तवः कथकनृत्याङ्गना रेखामेहरा निशान्तगुप्तः कलासाधिका दीपाली विदेशमन्त्रालयस्य उपसचिवा मेघनाव्यासअरोडा सङ्गीतशिक्षकः डॉ लोकेशवर्मा तबलावादकः नागेश्वरकर्णः सहिताः अनेके विद्वांसः उपस्थिताः आसन्।
सङ्गोष्ठ्याः सफलसञ्चालनं सङ्गोष्ठीसंयोजिका ऋतम्भरारिमझिम अकरोत्।
कार्यक्रमस्य समाप्तिः भारतीयकला सङ्गीतं विश्वस्य प्राचीनाध्यात्मिकसांस्कृतिकनिक्षेपं प्रति गभीरसमर्पणकृतज्ञताभावैः सह अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani