Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी लोकप्रियगायिकायाः सुमन कल्याणपुर इत्यस्याः निधनस्य विषये सोमवासरे शोकं व्यक्तवान्।
प्रधानमन्त्री सुमन कल्याणपुर इत्यस्याः निधनस्य विषये दुःखं प्रकटयन् उक्तवान् यत् तस्याः सुमधुरा स्वरधारा तथा भावपूर्णगायनं भारतस्य सांस्कृतिकजगतः समृद्धिं कृतवती। स्वगीतानां माध्यमेन सा सङ्गीतप्रेमिणां तथा भारतीयचलच्चित्रस्य प्रशंसकानां मध्ये विशेषस्थानं प्राप्तवती।
प्रधानमन्त्री मोदी अद्य स्वस्य एक्स्-पोस्ट् मध्ये उक्तवान् यत् लोकप्रियगायिकायाः सुमन कल्याणपुर इत्यस्याः निधनात् गहनं दुःखम् अभवत्। तस्याः मधुरा वाणी तथा भावपूर्णगायनं अस्माकं सांस्कृतिकजगतः समृद्धिं कृतवती। स्वगीतानां माध्यमेन सा सङ्गीतप्रेमिणां तथा भारतीयचलच्चित्रप्रशंसकानां मध्ये विशेषस्थानं निर्मितवती। तस्याः परिवारस्य तथा प्रशंसकानां प्रति अस्माकं गभीरसंवेदनाः।
उल्लेखनीयम् अस्ति यत् लोकप्रियगायिका सुमन कल्याणपुर (जन्म २८ जनवरी १९३७) भारतीयचलच्चित्रजगतः एकासु विख्यातासु लोकप्रियासु च पार्श्वगायिकासु अन्यतमा आसीत्। षट्दशकपर्यन्तं विस्तृते स्वीयसङ्गीतजीवने तया हिन्दी, मराठी, बङ्गाली तथा गुजराती इत्यादिषु अनेकासु भाषासु ३००० अधिकानि गीतानि गीतानि। सा ‘आजकल तेरे मेरे प्यार के चर्चे’ इत्यादिभिः सदाबहारगीतैः विशेषरूपेण स्मर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani