मांडवियायाः जन्मदिने प्रधानमंत्री मोदी समेत्य शीर्षनेतारोऽयच्छञ्छुभकामनाः
नव दिल्ली, 01 जूनमासः (हि.स.)। केन्द्रीयश्रमरोजगारमन्त्री तथा युवकार्यक्षेत्रक्रीडामन्त्री मनसुखमाण्डवियस्य जन्मदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्ष ओमबिरला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः तथा रक्षामन्त्री राजनाथ
केंद्रीय श्रम एवं रोजगार तथा युवा कार्य एवं खेल मंत्री मनसुख मांडविया (फाइल फोटो)।


नव दिल्ली, 01 जूनमासः (हि.स.)।

केन्द्रीयश्रमरोजगारमन्त्री तथा युवकार्यक्षेत्रक्रीडामन्त्री मनसुखमाण्डवियस्य जन्मदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्ष ओमबिरला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः तथा रक्षामन्त्री राजनाथसिंहः शुभकामनाः प्रेषितवन्तः तथा तस्य स्वस्थदीर्घायुजीवनस्य कामनाम् अकुर्वन्।

प्रधानमन्त्री नरेन्द्रमोदी एक्समाध्यमे उक्तवान् यत् मनसुखमाण्डवियः क्रीडासंरचनाविकासाय युवाशक्तेः कल्याणाय च उल्लेखनीयम् योगदानं ददाति। देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्तः श्रमिकाः येषां हितवर्धनेऽपि माण्डवियः अग्रणीभूमिकां निर्वहति। प्रधानमन्त्री तस्य दीर्घस्वस्थजीवनस्य कामनाम् अकरोत्।

लोकसभाध्यक्षः ओमबिरला केन्द्रीयमन्त्रिणः जन्मदिवसस्य शुभकामनाः प्रदाय तस्य उत्तमस्वास्थ्यस्य मङ्गलमयजीवनस्य च कामनाम् अकरोत्। सः उक्तवान् यत् माण्डवियः सार्वजनिकजीवने समर्पणसेवाभावेन कार्यं करोति।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः उक्तवान् यत् प्रधानमन्त्रिणो मोदिनः नेतृत्वे मनसुखमाण्डवियः श्रमिककल्याणाय तथा देशे क्रीडासंस्कृतेः क्रीडासंरचनायाश्च विकासाय प्रशंसनीयकार्यं करोति। तेन तस्य उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामना कृता।

रक्षामन्त्री राजनाथसिंहः अपि केन्द्रीयमन्त्रिणं जन्मदिवसस्य शुभाशयैः अभिनन्द्य उक्तवान् यत् श्रमिककल्याणे, जीविकासृजने, युवाशक्तिसशक्तीकरणे तथा क्रीडासंस्कृतेः प्रोत्साहने तस्य योगदानम् अत्यन्तं प्रशंसनीयम् अस्ति। तेन ईश्वरात् माण्डवियस्य स्वस्थदीर्घजीवनस्य प्रार्थना कृता।

उल्लेखनीयम् अस्ति यत् गुजरातराज्यस्य भावनगरजनपदे १ जून १९७२ तमे वर्षे जातः माण्डवियः छात्रजीवनादेव सामाजिकसार्वजनिकक्रियाकलापेषु सक्रियः आसीत्। भारतीयजनतापक्षस्य संगठनात्मककार्येषु तेन महत्त्वपूर्णा भूमिका निर्वहिता। सः वर्षे २०१२ तमे राज्यसभासदस्यः अभवत् तथा अनन्तरं केन्द्रसर्वकारे विभिन्नमन्त्रालयानां दायित्वानि अपि व्यूढवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani