Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् केचन जनाः कस्यचित् कार्यस्य स्वयम् आचरणे अत्यन्तं कुशलाः भवन्ति, अपरे तु तदेव ज्ञानं कौशलं वा अन्येभ्यः शिक्षयितुं विशेषरूपेण निपुणाः भवन्ति। तेन उक्तं यत् आत्मनियन्त्रणस्य तथा अन्येभ्यः शिक्षणक्षमतायाः यद्एतयोः उभयोः गुणयोः युक्तः पुरुषः श्रेष्ठशिक्षकेषु गणनीयः भवति।
प्रधानमन्त्री अद्य एक्समाध्यमे संस्कृतसुभाषितम् अपि सह कृतवान् यत्
“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
यशोभयं साधु स शिक्षणानां धुरी प्रतिष्ठापयितव्य एव।। ”
अस्य सुभाषितस्य अर्थः अस्ति यत् यत्र केचन जनाः अभ्यासे निपुणाः भवन्ति तथा केचन शिक्षणे कुशलाः भवन्ति, तत्र सः पुरुषः यः कस्यचित् विषयस्य पूर्णमाहात्म्यं प्राप्त्वा तदेव विषयम् अन्येभ्यः प्रभावीरीत्या शिक्षयितुं समर्थः भवति, सः शिक्षकेषु सर्वोच्चस्थानप्राप्तेः योग्यः भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani