जबलपुरम्- सिंहस्थम्-2028 आधृत्य आरक्ष्यधिकारिभ्यस्सैनिकेभ्यःषड् दिवसीय प्रशिक्षण कार्यशाला शुभारब्धा
जबलपुरम्, 01 जूनमासः (हि.स.)। मध्यप्रदेशस्य जबलपुरनगरे आगामि सिंहस्थ२०२८ महापर्वणः समये विधिव्यवस्था यातायातसञ्चालनं जनसमूहप्रबन्धनं तथा आपत्कालीनपरिस्थितीनां प्रभावीरीत्या समाधानार्थं पुलिसबलस्य प्रशिक्षणाय सोमवासरे षड्दिवसीयविशेषप्रशिक्षणकार्यश
सिंहस्थ-2028 की तैयारियां शुरू, जबलपुर में पुलिस अधिकारियों और जवानों के लिए छह दिवसीय प्रशिक्षण कार्यशाला का शुभारंभ


जबलपुरम्, 01 जूनमासः (हि.स.)।

मध्यप्रदेशस्य जबलपुरनगरे आगामि सिंहस्थ२०२८ महापर्वणः समये विधिव्यवस्था यातायातसञ्चालनं जनसमूहप्रबन्धनं तथा आपत्कालीनपरिस्थितीनां प्रभावीरीत्या समाधानार्थं पुलिसबलस्य प्रशिक्षणाय सोमवासरे षड्दिवसीयविशेषप्रशिक्षणकार्यशालायाः शुभारम्भः पुलिसलाइनस्थिते सामुदायिकभवने कृतः।

पुलिसमुख्यालयस्य निर्देशानुसारम् आयोजितायाः अस्याः कार्यशालायाः उद्घाटनम् अतिरिक्तपुलिसमहानिदेशकः प्रमोदवर्मा आरक्ष्यधीक्षकस्य सम्पतउपाध्यायस्य उपस्थितौ अकरोत्। कार्यक्रमे वरिष्ठपुलिसअधिकारीभिः सह बहुसंख्यकाः अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।

कार्यशालायाम् अतिरिक्तपुलिसअधीक्षकः अपराधविभागस्य जितेन्द्रसिंहः अतिरिक्तपुलिसअधीक्षकः ग्रामीणविभागस्य सूर्यकान्तशर्मा अतिरिक्तारक्ष्यधीक्षकः यातायातविभागस्य अञ्जनातिवारी उपपुलिसअधीक्षकः आकाङ्क्षाउपाध्याय नगरपुलिसअधीक्षकः गढाविभागस्य आशीषजैनः नगरपुलिसअधीक्षकः अधारतालविभागस्य राजेश्वरीकौरव नगरपुलिसअधीक्षकः गोहलपुरविभागस्य मधुरपटेरिया उपपुलिसअधीक्षकः बैजनाथप्रजापति रक्षितनिरीक्षकः जेपीआर्य सूबेदारः योगेशचौकसे इत्यादयः प्रायः १५० अधिकारीणः कर्मचारीणश्च सहभागीभूताः।

प्रशिक्षणस्य समये यातायातप्रबन्धनं जनसमूहनियन्त्रणं सुरक्षाव्यवस्था परीक्षणं निगरानीसम्बद्धविषयाश्च विषये विस्तृतसूचना पावरपॉइण्ट्प्रस्तुतीकरणस्य माध्यमेन प्रदत्ता। अधिकारीभिः उक्तं यत् सिंहस्थ२०२८ व्यवस्थापनार्थं जबलपुरजनपदस्य पुलिसबलं चरणबद्धरीत्या निरन्तरं प्रशिक्षितं भविष्यति येन महापर्वणः समये सर्वासां परिस्थितीनां प्रभावीरीत्या सामना कर्तुं शक्येत।

पुलिसविभागस्य मतम् अस्ति यत् एतादृशैः प्रशिक्षणकार्यक्रमैः पुलिसबलस्य कार्यकुशलता वर्धिष्यते तथा च सिंहस्थसदृशे विशालधार्मिकआयोजने उत्तमा सुरक्षा सुव्यवस्था च सुनिश्चितं कर्तुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani