राजस्थानभाजपादलस्य प्रदेश संगठन महामंत्री जातोऽजेयकुमारः
नवदिल्ली, 01 जूनमासः (हि.स.)।भारतीयजनतापार्टी उत्तराखण्डस्य प्रदेशसङ्गठनमहामन्त्रिणोऽजेय कुमारस्य राजस्थानस्य नूतनप्रदेशसङ्गठनमहामन्त्रिरूपेण नियुक्तिं कृतवती। एषा नियुक्तिः तत्कालप्रभावेन प्रवर्तिता अस्ति। भाजपायाः राष्ट्रियमहासचिवेन मुख्यालयप्रभ
अजेय कुमार (फाइल फोटो)


नवदिल्ली, 01 जूनमासः (हि.स.)।भारतीयजनतापार्टी उत्तराखण्डस्य प्रदेशसङ्गठनमहामन्त्रिणोऽजेय कुमारस्य राजस्थानस्य नूतनप्रदेशसङ्गठनमहामन्त्रिरूपेण नियुक्तिं कृतवती। एषा नियुक्तिः तत्कालप्रभावेन प्रवर्तिता अस्ति।

भाजपायाः राष्ट्रियमहासचिवेन मुख्यालयप्रभारिणा अरुण सिंहेन सोमवासरे निर्गतीकृते वक्तव्ये अस्याः सूचनायाः प्रकाशनं कृतम्। राजस्थानस्य प्रदेशसङ्गठनमहामन्त्रिपदं जनवरी २०२४ तः रिक्तम् आसीत्। तत्कालीनसङ्गठनमहामन्त्रिणश्चन्द्रशेखरस्य तेलङ्गानराज्ये स्थानान्तरणानन्तरं राजस्थानभाजपा सङ्गठनमहामन्त्रिणा विना कार्यं कुर्वती आसीत्।

भाजपायाः एकस्य पदाधिकाऱिणः अनुसारं उत्तरप्रदेशस्य सहारनपुरस्य मूलनिवासी अजेय कुमारः सितम्बर २०१९ तः अधुना पर्यन्तं उत्तराखण्डभाजपायाः प्रदेशमहामन्त्रिसङ्गठनरूपेण कार्यं कुर्वन् आसीत्। उत्तराखण्डे शासनस्य सङ्गठनस्य च मध्ये उत्तमसमन्वयस्य स्थापनाय तथा पक्षकार्यकर्तृवर्गस्य सुदृढीकरणाय तस्य कार्यशैल्याः बहु प्रशंसा अभवत्।

उत्तराखण्डात् पूर्वं अजेय कुमार उत्तरप्रदेशस्य पश्चिमक्षेत्रस्य भाजपामहामन्त्रीसङ्गठनरूपेण कार्यम् अकरोत्। तेन स्वस्य सार्वजनिकजीवनस्य आरम्भः राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकरूपेण कृतः। सङ्घस्य प्रचारकरूपेण तेन उत्तराखण्डे दीर्घकालं कार्यं कृतम्। सः उत्तराखण्डस्य श्रीनगरक्षेत्रे नगरप्रचारकरूपेण कार्यरतः आसीत्। ततः परं हरिद्वार-ऊधमसिंहनगरयोः जिलयोः जिलाप्रचारकरूपेण अपि कार्यम् अकरोत्। अनन्तरं तेन अल्मोडाक्षेत्रस्य विभागप्रचारकस्य दायित्वम् अपि व्यूढम्।

हिन्दुस्थान समाचार / Dheeraj Maithani